पैप्पलाद-संहिता · अध्याय 20.19
यत् त आत्मन् तन्वां घोरम् अस्ति
यद् वा केशेषु प्रतिचक्षणे वा ।
तत् ते विद्वान् अप बाधे अहं
प्र त्वा सुवात् सविता सौभगाय ॥
निर् लक्ष्म्यं ललाम्यं
निर् अरातिं सुवामसि ।
यथा नो वस्यसीद् असो
रायस्पोषम् इहा सुव ॥
अग्निम् अच्छ देवयतां मनांसि
चक्षूंषीव सूर्यं सं चरन्ति ।
यदी सुवाते उषसा विरूपे
श्वेतो वाजी जायते अग्रे अह्नाम् ॥
इन्द्रो राजा जगतश् चर्षणीनाम्
अधि क्षमि विषुरूपं यद् अस्ति ।
ततो ददाति दाशुषे वसूनि
चोदद् राध उपस्तुतश् चिद् अर्वाक् ॥
शकुनिर् भूत्वा प्र बभस्ति पिप्पलं
पत्यां निविष्टा यदि वा घ पत्न्याम् ।
भीमा घोरा लक्ष्म्यः सहभव्यास्
ता इतो हविषा निर् यजामः ॥
या ते गृहेषूत वा धनेषु
प्रजां लक्ष्मीर् यदि वा ते बभस्ति ।
तां बृहस्पतिर् हविषा बाधमानो
निर्हूय प्र दध्माव् अधि दूरम् अस्मत् ॥
रिश्यपदीं रिशद्वतीं
गोषेधां विधमाम् उत ।
विलीढ्यं व्याध्यं
ब्रह्मणा ता अनीनशम् ॥
प्रत्योषन्तीम् उत्सङ्गिनीम्
उत च्छिद्राम् उतारणीम् ।
सिंहीं ज्येष्ठलक्ष्मीं
व्याघ्रीं नाशयामसि ॥
अनुध्यायिनीं परिचरां
विबाधाम् उत हिंसतीम् ।
रोदस्य पत्नीं रोधनां
प्र ता धमामि लक्ष्म्यः ॥
वामस्पृहां पितृषदं
येषन्तीं तपनीम् उत ।
असिध्यन्तीं प्रध्वंसिनीम्
अष्ट्रावधां च लक्ष्म्यं
ब्रह्मणा ता अनीनशम् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0