भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.18

20.18.1

अभि प्रागात् सहस्राक्षो
युक्त्वा शपथो रथम् ।
शप्तारम् अन्विच्छन् यातु
वृक इवाविमतो गृहम् ॥

20.18.2

परि णो वृङ्धि शपथ
ह्रदम् अग्निर् इव दहन् ।
शप्तारम् अत्र त्वं जहि
दिव्या वृक्षम् इवाशनिः ॥

20.18.3

यो नः शपाद् अशपतः
शपतो यश् च नः शपात् ।
वृक्ष इव विद्युता हत
आ मूलाद् अनु शुष्यतु ॥

20.18.4

शप्तारं यन्तु शपथा
यः सुहार्त् तेन नः सह ।
जिह्वाश्लक्ष्णस्य दुर्हार्दः
पृष्टीर् अपि शृणीमसि ॥

20.18.5

यं द्विष्मो यश् च नो द्वेष्ट्य्
अघायुर् यश् च नः शपात् ।
शुने पेष्ट्रम् इवावक्षामं
तं प्रत्य् अस्यामि मृत्यवे ॥

20.18.6

प्रेतो यन्तु व्याध्यः
प्रानुध्याः प्रो अशस्तयः ।
अग्नी रक्षस्विनीर् हन्तु
सोमो हन्तु दुरस्यतीः ॥

20.18.7

प्र चतेतः पापि लक्ष्मि
नश्येतः प्रामुतः पत ।
अयस्मयेनाङ्केन
यं द्विष्मस् तस्मिन् त्वा सृजामः ॥

20.18.8

या त्वा लक्ष्मीः पतयालूर् अजुष्ट् -
-आधिचस्कन्द वन्दनेव वृक्षम् ।
अन्यत्रास्मत् सवितस् ताम् इतो धा
हिरण्यहस्तो वसु नो रराणः ॥

20.18.9

निर् अरणीं सविता साविषत् पदोर्
निर् हस्तयोर् वरुणो मित्रो अर्यमा ।
निर् आदित्या अनुमती रराणाः
प्र णः सुवात् सविता सौभगाय ॥

20.18.10

एकशतं लक्ष्म्यः
साकं मर्त्यस्य जनुषेह जाताः ।
तासां पापिष्ठा निर् अतः प्र हिण्मः
शिवास्मभ्यं जातवेदो नि यच्छ ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc