भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.16

20.16.1

ययोर् अप्सु न महिमा नदीषु
प्ररिरिचे प्रदिवि रोचनायाम् ।
ययोर् अस्त्य् अनुमतिर् भूयिष्ठा
विष्णुम् अगन् वरुणं पूर्वहूतिः ॥

20.16.2

ययोर् इदं प्रदिशि यद् विरोचते
प्रजाम् अति वि च चष्टे शचीभिः ।
महऋतस्य धर्माणा युवाना
विष्णुम् अगन् वरुणं पूर्वहूतिः ॥

20.16.3

उभा जिग्यथुर् न परा जयेथे
न परा जिग्ये कतरश् चनैव वाम् ।
इन्द्रश् च विष्णो यद् अपस्पृधेथां
त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥

20.16.4

यद् अशुद्धं यद् अनृतं
यच् चरामसि पापया ।
आपो मा तस्माद् एनसो
दुरितात् पान्तु विश्वतः ॥

20.16.5

दुष्वप्न्यं दुर्जीवितम् इत्य् एका ॥

20.16.6

यद् अवामृक्षत कृष्णशकुनिर्
मुखेन निरृते तव ।
अग्निष् टत् सर्वं शुन्धतु
हव्यवाड् घृतसूदनः ॥

20.16.7

यद् अस्मान् कृष्णशकुनेर्
निष्पत्य तत आनशे ।
आपो मा तस्माद् एनसो
दुरितात् पान्तु विश्वतः ॥

20.16.8

अग्निर् मा पातु प्रथमो दुरर्मणो
निरृत्यां विश्वा दुरितानि मृज्महे ।
विश्वे मा देवा मरुतः पुनन्तु
वरुणो राजा सविता पवित्रैः ॥

20.16.9

अन्तरिक्षेण पतति
यातुधाननिबाधितः ।
स्तोकं यम् अभ्यचुश्चुतत्
तम् उ स्योनं कृणोमि ते ॥

20.16.10

यत् त्वा कृष्णो अभ्यमृक्षद्
देवेभ्यस् परि निर्हतः ।
शिवं ते तन्वे तत् कृण्मो
वि ते पाशांश् चृतामसि ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc