पैप्पलाद-संहिता · अध्याय 20.15
यद् अन्नम् अद्मि बहुधा विरूपं
हिरण्यम् अश्वम् उत गाम् अजाम् अविम् ।
यद् एव किं च प्रतिजग्रहाहम्
अग्निष् टद् विश्वाद् अगदं कृणोतु ॥
यद् आशसा मे चरतो जनाँ अनु
याचमानस्य वदतो विचुक्षुभे ।
यन् मे तन्वो मनसो विरिष्टं
सरस्वती तद् आ पृणाद् घृतेन ॥
यद् आरिम प्रतिगृह्णन्त एनः
सिषासन्तो बलिम् अग्ने चरन्तः ।
त्वं नस् तस्माद् एनसो मुमुग्धि
वैश्वानरः प्रति हव्या गृभाय ॥
चक्षुषः पाशान् मनसश् च पाशाद्
वीक्षायाः पाशाद् उत शक्वरीणाम् ।
तस्मान् मुमुग्धि विश्वावसो त्वं नो
दातॄणां दानं भुनजामहै वयम् ॥
अदुर् मे विश्वे देवा
अदात् सवितेदम् ।
अदान् मे ब्रह्मणस्पतिः
प्रियो मित्रो अदाद् इदम् ॥
इन्द्रेण मेदिना युज्-
-आप बाधे पृतन्यतः ।
अधरे सन्तु शत्रवः ॥
अग्निर् इन्द्रश् च यद् युवं
हतो वृत्राण्य् अप्रति ।
उग्रा हि वृत्रहन्तमा ॥
अग्निम् इन्द्रं च यद् वयं
पुरोधायै हवामहे ।
तौ नो मृडात ईदृशे ॥
याभ्यां स्वर् अजयन्न् अग्रे
याव् आतस्थतुर् भुवना जुषाणा ।
प्रचर्षणी वृषणा वज्रबाहू
अग्निम् इन्द्रं वृत्रहणा हुवेम ॥
ययोर् ओजसा स्तभिता रजांसि
यौ वीर्यैर् वीरतमा शचीभिः ।
यौ पत्येते अप्रतीतौ सहोभिर्
विष्णुम् अगन् वरुणं पूर्वहूतिः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0