भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.14

20.14.1

पयस्वतीर् ओषधयः
पयस्वन् मामकं वच इत्य् एका ॥

20.14.2

अयम् अग्निर् वरेण्य
आयुष् टे विश्वतो दधत् ।
पुनस् त्वा प्राण आयति
परा यक्ष्मं सुवामि ते ॥

20.14.3

जनाद् विश्वजनीनं
विशाम् उरुक्षितीनाम् ।
दूरात् त्वा मन्य आभृतम्
ईर्ष्याया नाम भेषजम् ॥

20.14.4

दूराद् एतत् सं भरन्त्-
-ईर्ष्याया नाम भेषजम् ।
तत् संवेगस्य भेषजं
तद् अश्ना संगृभायिकम् ॥

20.14.5

अग्नेर् इव दहतो
दावस्य दहतो यथा ।
एताम् एतस्येर्ष्यां हृद
उद्नाग्निम् इव वारये ॥

20.14.6

अप मार्ज्म्य् अपनयन्
मन्युं ते हृदयाद् अधि ।
अमुष्मिन्न् ईर्ष्याम् आ दध्मस्
तत्रो एनां नि दध्मसि ॥

20.14.7

तिरश्चिराजेर् असितात्
पृदाकोर् अधि संभृतम् ।
तत् कङ्कपर्वणो विषम्
इयं वीरुद् अदूदुषत् ॥

20.14.8

इयं वीरुन् मधुजाता
मधुश्चुन् मधुला मधु
सा विह्रुतस्य भेषज्य्
अथो मशकजम्भनी ॥

20.14.9

यतो दष्टं यतः पीतं
ततस् त्वा निर् णयामसि ।
अभ्र्यस्य तृप्रदंशिनो
मशकस्यारसं विषम् ॥

20.14.10

अयं यो विख्यो विकटो विपर्वा
मुखान्य् एषां वृजिना कृणोषि ।
तानि त्वं देव सवितर्
इषीकाम् इव सं नमः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc