पैप्पलाद-संहिता · अध्याय 20.13
स्वाहाकृतः शुचिर् देवेषु घर्मो
यो अश्विनोश् चमसो देवपानः ।
तम् उ विश्वे अमृतासो जुषाणा
गन्धर्वस्य प्रत्य् आस्ना रिहन्ति ॥
सुगा वो देवाः सदना कृणोमि
य आतस्थेदं सवनं जुषाणाः ।
वहमाना भरमाणा अभ्रा
अस्तं घर्मं तम् उदातिष्ठतानु ॥
शिवा नः शंतमा भव
सुमृडीका सरस्वति ।
मा ते युयोम संदृशः ॥
उपैनं देवो अग्रभीच्
चमसेन बृहस्पतिः ।
यजमानाय शुन्धत
इन्द्र गीर्भिर् न आ भर ॥
सं मा सिञ्चन्तु मरुत इत्य् एका ॥
इडैवास्माँ अनु वस्तां व्रतेन
यस्याः पदे पुनते देवयन्तः ।
घृतपदी शक्वरी सोमपृष्ठ्-
-ओप यज्ञम् अस्थित वैश्वदेवी ॥
द्रप्सश् चस्कन्देत्य् एका ॥
यस् ते द्रप्स स्कन्दति यस् ते अंशुर्
बाहुच्युतो धिषणाया उपस्थात् ।
अध्वर्योर् वा परि यः पवित्रात्
तं ते जुहोमि मनसा वषट्कृतम् ॥
द्रप्सः पतितो विश्वयः परिश्रुतः ।
अयं देवो बृहस्पतिः
सं तं सिञ्चतु राधसे ॥
यस् ते द्रप्सः पतितः पृथिव्यां
धानासोमः परिवापः करम्भः ।
अयं देवो बृहस्पतिः
सं तं सिञ्चतु वर्चसे ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0