भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.12

20.12.1

उप ह्वय इति तिस्रः ॥

20.12.2

(…) ॥

20.12.3

(…) ॥

20.12.4

सूयवसाद् भगवतीत्य् एका ॥

20.12.5

संजानाना उप सीदान् अभिज्ञु
पत्नीवन्तो नमस्यं नमस्यान् ।
रिरिक्वांसस् तन्वा सुम्नम् आयुः
सखेत् सख्युर् निमिषि रक्षमाणाः ॥

20.12.6

समिद्धो अग्निर् अश्विना
तप्तो वां घर्म आ गतम् ।
दुह्यन्ते नूनं वृषणेह धेनवो
दस्रा वदन्ति कारवः ॥

20.12.7

समिद्धो अग्निर् अश्विना रथी दिवस्
तप्तो घर्मो दुह्यते वाम् इषे मधु ।
वयं हि वां पुरुतमासो अश्विना
हवामहे सधमादेषु कारवः ॥

20.12.8

यद् उस्रियास्व् आहुतं घृतं पयो
ऽयं सो अश्विना वां भाग आ गतम् ।
माध्वी धर्तारा विदथस्य सत्पती
तप्तं घर्मं पिबतं रोचने दिवः ॥

20.12.9

तप्तो वां घर्मो नक्षति सुहोता
प्र वाम् अध्वर्युश् चरति पयस्वान् ।
मधोर् दुग्धस्याश्विना तनाया
वीतं पातं पयस उस्रियायाः ॥

20.12.10

उप द्रव पयसा गोधुग् ओषुम्
आ घर्मे सिञ्च पय उस्रियायाः ।
वि नाकम् अख्यत् सविता वरेण्यो
ऽनु द्यावापृथिवी सुप्रणीतिः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc