भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.11

20.11.1

अति धन्वान्य् अत्य् अपस् ततर्द
श्येनो नृचक्षा अवसानदर्शः ।
तरन् विश्वावरा रजांस्-
-ईन्द्रेण सख्या शिव आ जगाम ॥

20.11.2

आगन् देवः सविता सर्वधाया
उरुज्योतिर् अविदामा नमोभिः ।
महीं नावम् अदितेर् आ रुहेम
यत्र सोमः सदम् इत् तत्र भद्रम् ॥

20.11.3

उद् वयम् इत्य् एका ॥

20.11.4

पतिर् दिवः पतिर् अग्निः पृथिव्याः
पतिर् विश्वस्य भुवनस्य राजति ।
पतिर् विश्वा ओषधीर् आ विवेश
पत्नीवान् अग्न इह याहि सोमम् ॥

20.11.5

सं क्रामतं मा जहीतं शरीरं
प्राणापानौ सयुजेह स्तम् ।
सप्तऋषिभ्यः परि दद्म एतं
त एनं स्वस्ति जरसे नयन्तु ॥

20.11.6

यत् त आयुर् अतिहितं पराचैर्
अपानः प्राणो य उ ते परेतः ।
अग्निष् टद् आहार् निरृतेर् उपस्थात्
तद् आत्मनि पुनर् आ वेशयामि ॥

20.11.7

मा त्वा प्राणो हासीद् यस् त्वे प्रविष्टो
मा त्वापानो ऽवहाय परा गात् ।
संरभ्य जीव शरदः सुवर्चा
अग्निष् टे गोपा अधिपा वसिष्ठः ॥

20.11.8

राकाम् अहं सुहवां सुष्टुती हुवे
शृणोतु नः सुभगा बोधतु त्मना ।
सीव्यत्व् अपः सूच्याच्छिद्यमानया
ददातु वीरं शतदायम् उक्थ्यम् ॥

20.11.9

यास् ते राके सुमतयः सुपेशसो
याभिर् ददाति दाशुषे वसूनि ।
ताभिर् नो अद्य सुमना उपागहि
सहस्रपोषं सुभगे रराणा ॥

20.11.10

या राका या सिनीवाली
या गुङ्गूर् या सरस्वती ।
इन्द्राणीम् अह्व ऊतये
वरुणानीं स्वस्तये ॥

20.11.11

या सुबाहुः स्वङ्गुरिः
सुषुमा बहुसूवरी ।
तस्यै विश्पत्न्यै हविः
सिनीवाल्यै जुहोतन ॥

20.11.12

सिनीवालि पृथुष्टुके
या देवानाम् असि स्वसा ।
जुषस्व हव्यम् आहुतं
प्रजां देवि दिदिड्ढि नः ॥

20.11.13

या विश्वत इन्द्रम् असि प्रतीची
सहस्रस्तुताम् अभि यन्तु देवीः ।
विष्णुपत्नि तुभ्यं राता हवींषि
पतिं देवि राधसा चोदयस्व ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc