भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.10

20.10.1

यो नो मित्रावरुणाभिदासात्
सपत्नो वोत्पिपानो बृहस्पते ।
सर्वं तम् अग्ने अधरं पातयास्मद्
यथेन्द्राहम् उत्तमश् चेतयानि ॥

20.10.2

अहम् एषाम् उत्तमश् चेतयानि
मम वशम् उप तिष्ठन्तु सर्वे ।
आजुह्वानो घृतपृष्ठः सुवर्चा
वसोर् मध्ये दीदिहि जातवेदः ॥

20.10.3

अमुम् अग्ने अधरं पातयास्मज्
जासयोत्पिपानं सपत्नम् ।
ये नो धूर्वान् अधरे ते भवन्तु
विश्वा द्वेषांस्य् अभितो नि मृड्ढि ॥

20.10.4

मूर्धानं दिवो अरतिं पृथिव्या
विशस् त्वा सर्वा बलिहृत उपासताम् ।
तासाम् उग्रो मध्यमेष्ठेयम् अस्या
स्वे क्षेत्रे सवितेव वि राज ॥

20.10.5

आ प्रत्यञ्चं दाशुषे दाश्वांसं
सरस्वन्तं पुष्टिपतिं रयीणाम् ।
रायस्पोषं श्रवस्यं वसानम्
इह हुवेम सदनं रयीणाम् ॥

20.10.6

यस्य व्रते पशवो यन्ति सर्वे
यस्य व्रत उपतिष्ठन्त आपः ।
यस्य व्रते पुष्टिपतिर् निविष्टस्
तं सरस्वन्तम् अवसे हुवेम ॥

20.10.7

ये ते सरस्वन्न् ऊर्मयो
मधुमन्तो घृतश्चुतः ।
तेभिर् नो ऽविता भुवः ॥

20.10.8

दिव्यं समुद्रं पयसं बृहन्तम्
अपां गर्भं वृषभम् ओषधीनाम् ।
अभीपतो रय्या तर्पयन्तं
सरस्वन्तं रयिष्ठां सादयेह ॥

20.10.9

इन्द्रस्य कुक्षिर् असि सोमधान
आत्मा देवानाम् उत विश्वरूपः ।
इह प्रजा जनय यास् त आसु
या अन्यत्रेह तास् ते स्वधितो गृणन्तु ॥

20.10.10

श्येनः सुपर्णो दिव्यो नृचक्षाः
सहस्रपाच् छतयोनिर् वयोधाः ।
स नो नि यच्छाद् वसु यत् पराभृतम्
अस्माकम् अस्तु पितृषु स्वधावत् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc