भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 19.3

19.3.1

शश्वद् दिद्युत् क्रियमाणा
प्रतीची नि हि पप्तत् ।
प्रत्यक् कर्तारम् ऋच्छतु ॥

19.3.2

शश्वन्तम् इच् छाशदानम्
अन्यस्मा इषुं दिहानम् ।
प्रतीची शरुर् ऋच्छतु ॥

19.3.3

यद् एतद् भूरि शाशदत्
प्रतीचीनम् अपोहसे ।
विषाद् इव विषम् अद्धि तत् ॥

19.3.4

नमस् ते प्रवतो नपाद्
यतस् तपः समूहसे ।
मृडा नस् तनूभ्यश्
शं नस् तोकेभ्यस् कृधि ॥

19.3.5

प्रवतो नपान् नमो अस्तु तुभ्यं
नमस् ते हेतये तपुष्यै ।
विद्म ते धाम परमं गुहा यत्
समुद्रे अन्तर् निहितासि नाभिः ॥

19.3.6

यां त्वा देवा अजनयन्त विश्व
इषुं कृण्वाना असनाय तृष्वीम् ।
सा नो मृड विदथे गृणाना
मित्रस्य च वरुणस्य प्रशिष्टौ ॥

19.3.7

यूयं नः प्रवतो नपान्
मरुतः सूर्यत्वचः ।
शर्म यच्छाथ सप्रथः ॥

19.3.8

ममृडता सुषूदता
मृडा नो अघ्न्याभ्यः ।
तोकाय तन्वे च ॥

19.3.9

नमस् ते अस्तु विद्युते
नमस् ते स्तनयित्नवे ।
नमस् ते अस्त्व् अश्मने
येना दूडाशे अस्यसि ॥

19.3.10

यो अस्मान् ब्रह्मणस्पते
ऽदेवो अभिदासति ।
सर्वं तं रीरधासि नः ॥

19.3.11

येभिः सोम साहन्त्य-
-असुरान् रन्धयासै ।
तेभिर् नो ऽविता भुवः ॥

19.3.12

यानि देवा असुराणाम्
ओजांस्य् अवृणीध्वम् ।
तेभिर् नो अधि वोचत ॥

19.3.13

उद् एनम् उत्तरं नय-
-अग्ने घृतेभिर् आहुतः ।
सम् एनं वर्चसा सृज
देवानां भागधा असत् ॥

19.3.14

इन्द्रेमं प्रतरं कृधि
सजातानाम् असद् वशी ।
रायस्पोषेण सं सृज
प्रजया च बहुं कृधि ॥

19.3.15

यस्य कृण्मो गृहे हविस्
तम् अग्ने वर्धया त्वम् ।
तस्मै सोमो अधि ब्रुवद्
अयं च ब्रह्मणस्पतिः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc