भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 19.2

19.2.1

त्वष्टा मे दैव्यं वचः
पर्जन्यो ब्रह्मणस्पतिः ।
पुत्रैर् भ्रातृभिर् अदितिर् नु पातु नो
दुष्टरं त्रामणे शवः ॥

19.2.2

अंशो भगो वरुणो मित्रो अर्यमा-
-अदितिः पात्व् अंहसः ।
अप तस्य द्वेषो गमेद्
अविह्रुतो यावयाच् छत्रुम् ? अन्ति तम्? ॥

19.2.3

देव त्वष्टर् वर्धय सर्वतातये
धिये सम् उ श्रिये प्रावतान् नः ।
उरुष्या ण उरुतराप्रयुच्छन्
द्यौष् पितर् यावय दुच्छुनाम् इतः ॥

19.2.4

ये नो वचोभिर् उत दंसनाभिस्
तन्वं सोम परितापयन्ते ।
नीचैस् तान् वृश्च न यथा विरुक्षन्
मा ते दृशन् सूर्यम् उच्चरन्तम् ॥

19.2.5

त्वयेष्वा त्वया सोम धन्वना
त्वया मुष्टिघ्ना शाशद्महे वयम् ।
त्वं तान् वृश्च य इदं न ? आदृशाकरन् ?
हनाम दण्डैर् उत दंसनाभिः ॥

19.2.6

पदेन तान् पदन्यो नयन्तु
वधैर् एनान् पितरो दंसयन्तु ।
यथा न जीवात् कतमश् चनैषाम् ॥

19.2.7

येन सोमादितिः पथा
मित्रा वा यन्त्य् अद्रुहः ।
तेना नो ऽविता भुवः ॥

19.2.8

यो नः सोम सुशंसिनो
दुःशंसो अभिदासति ।
वज्रेणास्य मुखे जहि
स संपिष्टो अपायति ॥

19.2.9

यो नः सोमाभिदासति
सनाभिर् यश् च निष्टियः ।
अप तस्य बलं तिर
महीव द्यौर् वध त्मना ॥

19.2.10

पुनर् अघम् अघकृतम् एतु देवाः
पुनर् एन एनस्कृतं विजानत् ।
पुनः पुत्रः पितरम् एतु विद्वान्
हताम् उत यद् अस्य स्वम् अस्ति ॥

19.2.11

येन चासौ शपति
येन चैनं शपामसि ।
उभौ संवृह्य तौ तस्माद्
अन्तिकाद् धेतिम् अस्यताम् ॥

19.2.12

ये पार्थिवासः शपथा
य उराव् अन्तरिक्षे ।
ये वातस्य प्रभर्मणि
तेभिष् टं वर्तयामसि
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥

19.2.13

ये अस्मान् परिसीसृपुः
कुलीपयानि बिभ्रतः ।
उद् देवस् तेषां वृश्चत
मूलम् उर्वार्वो यथा ॥

19.2.14

यद् देवा अघधा अघम्
अन्यस्मिन्न् आ सिसंक्षति ।
भारो अघस्य दुःसहः
प्रत्यक् कर्तारम् ऋच्छतु ॥

19.2.15

पुनर् एवाघधाम् अघं
द्युम्नम् ?इवैतुर् अर्षतु ।
आदित्यादुर्यामहिषा?
मही सिन्धोर् इवावनिः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc