पैप्पलाद-संहिता · अध्याय 19.4
ऋतावानं वैश्वानरम्
ऋतस्य ज्योतिषस् पतिम् ।
अजस्रं घर्मम् ईमहे ॥
स इदं प्रति पप्रथद्
यज्ञस्य स्वर् उत्तिरन् ।
ऋतून् उत् सृजते वशी ॥
अग्निः प्रियेषु धामसु
कामो भूतस्य भव्यस्य ।
सम्राड् एको वि राजति ॥
परि द्याम् इव सूर्यो
अहीनां जनिम् आगमम् ।
रात्री जगद् इवान्यद् धंसाद्
अवारीर् इमं विषम् ॥
यद् ब्रह्मभिर् यद् ऋषिभिर्
यद् देवैर् उदितं पुरा ।
यद् भूतं भव्यम् आसन्वत्
तेन ते वारये विषम् ॥
मधुनापृक्षि नद्यः
पर्वता गिरयो मधु ।
मधु परुष्णी शीपाला
शम् आस्ने अस्तु शं हृदे ॥
यथेयम् उर्वी पृथिवी
दाधार विष्ठितं जगत् ।
एवा ते ध्रियतां गर्भो
अनु सूतुं सवितवे ॥
(…)
दाधारेमान् वनस्पतीन् ।
(…) ॥
यथेयम् उर्वी पृथिवी
दाधार पर्वतान् अपः ।
एवा ते ध्रियतां गर्भो
अनु सूतुं सुवितवे ॥
सस्रुषीस् तद् अपसो
दिवा नक्तं च सस्रुषीः ।
वरेण्यक्रतुर् अहम्
अपो देवीर् उप ब्रुवे ॥
ओक्ता आपः कर्मण्या
मुञ्चन्त्व् इतः प्रणीतये ।
सद्यो भवन्त्व् एतवे ॥
देवस्य सवितुः सवे
कर्म कृण्वन्ति मानुषाः ।
शं नो भवन्त्व् अप ओषधीर् इमाः ॥
शतस्य ते धमनीनां
सहस्रस्य हिराणाम् ।
अस्थुर् इन् मध्यमा याः
साकम् अन्ता अरंसत ॥
परि वः सिकतामयीर्
धनूस् तिरश् चिद् अस्थिरन् ।
तिष्ठतेलयता सु कम् ॥
अमूर् या यन्ति जामयः
सर्वा लोहितवाससः ।
अभ्रातर इव योषास्
तिष्ठन्ति हतवर्चसः ॥
तिष्ठावरे तिष्ठ पर
उत त्वं तिष्ठ मध्यमे ।
कणिष्ठिका च तिष्ठाति
तिष्ठाद् इद् धमनिर् मही ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0