पैप्पलाद-संहिता · अध्याय 18.74
ये सत्यासो हविरदो हविष्या
इन्द्रेण देवैः सरथं दधानाः ।
आग्ने याहि सहस्रं देववन्दैः
परैः पूर्वैः पितृभिर् घर्मसद्भिः ॥
उप सर्प मातरं भूमिम् एताम्
उरुव्यचसं पृथिवीं सुशेवाम् ।
ऊर्णम्रदाः पृथिवी दक्षिणावत
एषा त्वा पातु निरृतेर् उपस्थात् ॥
उच् छ्वञ्चस्व पृथिवि मा नि बाधथाः
सूपायनास्मै भव सूपवञ्चना ।
माता पुत्रं यथा सिचा-
-अभ्य् एनं भूम ऊर्णुहि ॥
उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु
सहस्रं मित उप हि श्रयन्ताम् ।
ते गृहासो घृतश्चुतः स्योना
विश्वाहास्मै शरणाः सन्त्व् अत्र ॥
उत् ते स्तभ्नाति पृथिवीं त्वत् परि-
-इमं लोकं विदधन् मो अहर्षम् ।
एतां स्थूणां पितरो धारयन्त्व्
अत्रा यमः सदना ते कृणोतु ॥
अथर्वा पूर्णं चमसं
यम् इन्द्रायाबिभर् वाजिनीवते ।
तस्मिन् कृणोतु सुकृतस्य लोकं
तस्मिन्न् इन्दुः पवते विश्वदानीम् ॥
अमुम् अग्ने चमसं मा वि जिज्ञरः
प्रियो देवानाम् उप सोम्यानाम् ।
एष यश् चमसो देवपानस्
तस्मिन्न् एवा अमृता मादयन्ते ॥
यत् ते कृष्णः शकुन आतुतोद
पिपीलः सर्प उत वा श्वापदः ।
अग्निष् टद् विश्वाद् आ पृणातु विद्वान्
सोमश् चा यो ब्राह्मणाँ आविवेश ॥
पयस्वतीर् ओषधयः
पयस्वान् मामकं वचः ।
अथो पयस्वद् यत् पयस्
तेन मा सह जिन्वथ ॥
इमा नरीत्य् एका ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0