पैप्पलाद-संहिता · अध्याय 18.73
इतश् चामुतश् चावतं
यमे इव यतमाने यद् ऐतम् ।
प्र वां भरन् मानुषी देवयन्त ॥
आ सीदतं स्वम् उलोकं विदाने
स्वासस्थे भवतम् इन्दवे नः ।
युजे वां ब्रह्म पूर्व्यं नमोभिर्
वि श्लोक एति पथ्येव सूरेः ॥
शृण्वन्तु विश्वे अमृतस्य पुत्रा
आ ये धामानि दिव्यानि तस्थुः ।
त्रीणि पदानि रुपो अन्व् अरोहं
चतुष्पदीम् अन्व् एमि व्रतेन ॥
अक्षरेण प्रति मिम एताम्
ऋतस्य नाभाव् अधि सं पूनामि ।
देवेभ्यः कम् अवृणीत मृत्युं
प्रजायै कम् अमृतं नावृणीत ॥
बृहस्पतिं यज्ञाँ अकृण्वत र्षिं
प्रियां यमस् तन्वं प्रा रिरेख ।
त्वम् अग्न ईडितो जातवेदो
अवाड् ढव्यानी सुरभीणि कृत्वी ।
प्रादाः पितृभ्यः स्वधया ते अक्षन्न्
अद्धि त्वं देव प्रयता हवींषि ॥
आसीनासो अरुणीनाम् उपस्थे
रयिं धत्त दाशुषे मर्त्याय ।
पुत्रेभ्यः पितरस् तस्य वस्वः
प्र यच्छत त इहोर्जं दधात ॥
अग्निष्वत्ताः पितर एह गच्छत
सदःसदः सदत सुप्रणीतयः ।
अत्ता हवींषि प्रयतानि बर्हिषि
रयिं च नः सर्ववीरं दधात ॥
उपहूताः पितरः सोम्यासो
बर्हिष्व् एषु निधिषु प्रियेषु ।
त आ गमन्तु त इह श्रुवन्त्व्
अधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥
ये नः पूर्वे पितरः सोम्यासो
अनूहिरे सोमपीथं वसिस्थाः ।
तेभिर् यमः संरराणो हवींष्य्
उशन्न् उशद्भिः प्रतिकामम् अत्तु ॥
ये तातृषुर् देवत्रा जीहमाना
होत्राविद स्तोमतष्टासो अर्कैः ।
आग्ने याहि सुविदत्र्येभिर् अर्वाक्
सत्यैः कव्यैः पितृभिर् घर्मसद्भिः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0