भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 18.75

18.75.1

सं गच्छस्व पितृभिः सं यमेन-
-इष्टापूर्तेन परमे व्योमन् ।
हित्वावद्यं पुनर् अस्तम् एहि
सं गच्छस्व तन्वा सुवर्चाः ॥

18.75.2

ये अग्निदग्धा ये ऽनग्निदग्धा
मध्ये दिवः स्वधया मादयन्ते ।
तेभ्यः स्वराड् असुनीतिम् एतां
यथावशं तन्वं कल्पयाति ॥

18.75.3

आ रभस्व जातवेदस्
तेजस्वद् धरो अस्तु ते ।
शरीरम् अस्य सं दह-
-अथैनं धेहि सुकृताम् उलोके ॥

18.75.4

पुनर् देहि वनस्पते
य एष निहितस् त्वयि ।
यथा यमसादन
आसातै विदथा वदन् ॥

18.75.5

शं ते निहारो भवतु
शं ते पृष्ठाव शीयताम् ।
शीतिके शीतिकावत्य्
अह्लादके ह्लादकावति ।
मण्डूक्याप्सु सं भव
इमं स्व् अग्निं शमय ॥

18.75.6

विवस्वान् नो ऽभयं कृणोतु
परैतु मृत्युर् अमृतं न ऐतु ।
इह मे वीरा बहवो भवन्त्व्
अश्वावद् गोमन् मय्य् अस्तु पुष्टम् ॥

18.75.7

विवस्वान् नो ऽमृतत्वे दधातु
यः सुत्रामा जीरदानुः सुदानुः ।
इमान् रक्षः पुरुषान् आ जरिम्णो
मो ष्व् एषाम् असवो यमं गुः ॥

18.75.8

यो दध्रे अन्तरिक्षेण मह्ना
पितॄणां कविः प्रमतिर् मतीनाम् ।
तम् अर्चत विश्वमित्रा हविर्भिः
स नो यमः प्रतरं जीवसे धात् ॥

18.75.9

आ रोहत दिवम् उत्तमाम्
ऋषयो मा बिभीतन ।
सोमपाः सोमपायिन
इदं वः क्रियते हविर्
अगन्म ज्योतिर् उत्तमम् ॥

18.75.10

प्र केतुन बृहता भात्य् अग्निर्
आ रोदसी वृषभो रोरवीति ।
दिवश् चिद् अन्ताँ उपमाँ उद् आनड्
अपाम् उपस्थे महिषो ववर्ध ॥

18.75.11

नाके सुपर्णम् उप यत् पतन्तं
हृदा वेनन्तो अभ्यचक्षत त्वा ।
हिरण्यपक्षं वरुणस्य दूतं
यमस्य योनौ शकुनं भुरण्यम् ॥

18.75.12

इन्द्र क्रतुं न आ भर
पिता पुत्रेभ्यो यथा ।
शिक्षा णो अस्मिन् पुरुहूत वाजिनि
जीवा ज्योतिर् अशीमहि ॥

18.75.13

ये ते पूर्व इत्य् एका ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc