भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 17.20

17.20.1

या वशा उदकल्पयन्
देवा यज्ञाद् उदेत्य ।
तासां विलिप्त्यं भीमाम्
उदाकुरुत नारदः ॥

17.20.2

तां देवा अमीमांसन्त
वशेयां न वशेति ।
ताम् अब्रवीन् नारद
एषा वशानां वशतमा ॥

17.20.3

कति नु वशा नारद
यास् त्वं वेत्थ मनुष्यजाः ।
कतमासां भीमतमा
कस्या नाश्नीयाद् अब्राह्मणः ॥

17.20.4

विलिप्त्या बृहस्पते
या च सूतवशा वशा ।
तासां नाश्नीयाद् अब्राह्मणो
य आशंसेति भूत्याम् ॥

17.20.5

नमस् ते अस्तु नारद-
-अनुष्ठ विदुषे वशा ।
कतमासां भीमतमा
याम् अदत्त्वा पराभवेत् ॥

17.20.6

विलिप्त्या बृहस्पते
या च सूतवशा वशा ।
याः प्रयच्छेद् ब्रह्मभ्यो
य आशंशेति भूत्याम् ॥

17.20.7

त्रीणि वै वशाजातानि
विलिप्ती सूतवशा वशा ।
ताः प्र यच्छेद् ब्रह्मभ्यः
स्योनावस्कः प्रजापतौ ॥

17.20.8

एतद् वो ब्राह्मणा हविर्
इति मन्वीत याचितः ।
वशां चेद् एनं याचेयुर्
या भीमाददुषो गृहे ॥

17.20.9

देवा वशाम् उपावदन्
न नो दाद् इति हीडिताः ।
एताभिर् ऋग्भिर् भेदस्य
तस्माद् वै स पराभवत् ॥

17.20.10

उतैतां भेदो नारदाद्
वशाम् इन्द्रेण याचितः ।
तस्मात् तं देवा एनसो
वृश्चन्न् अहमुत्तरे ॥

17.20.11

ये वशाया अदानाय
वदन्ति परिरापिनः ।
इन्द्रस्य मन्यवे जाल्मा
आ वृश्चन्ते अचित्या ॥

17.20.12

यो गोपतिं पाराणीय-
-अथाहुर् मा ददा इति ।
रुद्रस्यास् तां हेतिं ते
परि यन्त्य् अचेतसः ॥

17.20.13

यदि हुतां यद्य् अहुताम्
अमा च पचते वशाम् ।
देवान् सब्राह्मणान् ऋत्वा
जिह्मो लोकान् निर् ऋच्छति ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc