भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 17.21

17.21.1

असृङ् मांसं त्वचं पेष्ट्रं मस्तृहणं मज्ज्ञः शरीरम् ।
अग्निः क्रव्याद् अत्त्व् अमुष्यामुष्यायणस्यामुष्याः पुत्रस्य ॥

17.21.2

प्रातर्यावद्भ्यो देवेभ्यः सायंयावद्भ्यो देवेभ्यो विश्वदानींयावद्भ्यो देवेभ्यः ।
अमुष्यामुष्यायणम् अमुष्याः पुत्रम् आ वृश्चामि ॥

17.21.3

वैश्वानराय क्षिप्रधन्वने ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् आ वृश्चामि ॥

17.21.4

क्षिप्रधन्वन् क्षिप्रहस्त ।
अमुष्यामुष्यायणस्यामुष्याः पुत्रस्य हृदयं यकृन् मतस्ने प्र विध्य ॥

17.21.5

इन्द्राग्निभ्यां प्रजापतये परमेष्ठिने सोमाय राज्ञे वरुणाय राज्ञे ।
पूष्णे धात्रे सवित्रे त्वष्ट्रे ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् आ वृश्चामि ॥

17.21.6

उषसे ऽह्ने रात्रये सूर्यायामुम् (…) ॥

17.21.7

वीरुद्भ्य ओषधीभ्यो वनस्पतिभ्यो वानस्पतेभ्यो ऽमुम् (…) ॥

17.21.8

अद्भ्यो मातरिश्वने ऽद्यावापृथिवीभ्याम् अमुम् (…) ॥

17.21.9

इदावत्सराय परिवत्सराय संवत्सराय बृहते विश्वरूपायामुम् (…) ॥

17.21.10

माद्भ्यः संवत्सरायामुम् (…) ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc