पैप्पलाद-संहिता · अध्याय 16.91
सहस्रपृष्ठः शतधारो अक्षितो
ब्रह्मौदनो देवयानः स्वर्गः ।
अमूंस् त आ दधामि प्रजया रेषय -
-एनं बलिहाराय मृडतां मह्यम् एव ॥
उद् एहि वेदिं प्रजया वर्धयैनं
नुदस्व रक्षः प्रतरं धेह्य् एनम् ।
श्रिया समानान् अति सर्वान्त् स्याम-
-अधस्पदं द्विषतः पादयेम ॥
ऋतेन तष्टा मनसा हितेयं
ब्रह्मौदनस्य निहिता वेदिर् अग्रे ।
अंशध्रीं शुद्धाम् उप धेहि नारि
तत्रौदनं सादय दैवानाम् ॥
अदितेर् हस्तां स्रुचम् एतां द्वितीयां
सप्तर्षयो भूतकृतो याम् अकृण्वन् ।
सा गात्राणि विदुष्य् ओदनस्य
दर्विर् वेद्याम् अध्य् एनं चिनोतु ॥
शृतं त्वा हविर् उप सीदन्तु दैवा
निसृप्याग्ने पुनर् एनं प्र सीद
सोमेन पूतो जठरे सीद ब्रह्मणाम्
आर्षेयास् ते मा रिषन् प्राशितारः ॥
सोम राजन् संज्ञानम् आ वपैभ्यः
सुब्राह्मणा यतमे त्वोपसीदान् ।
ऋषीन् आर्षेयांस् तपसो ऽधि जातान्
ब्रह्मौदने सुहवा जोहवीमि ॥
इमा आपो मधुमतीर् घृतश्च्युतो
ब्रह्मणां हस्तेषु प्र पृथक् सादयामि ।
यत्काम इदम् अभिषिञ्चामि वो ऽहम्
इन्द्रो मरुत्वांस् तद् अदाद् इदं मे ॥
इदं मे ज्योतिर् अमृतं हिरण्यं
पक्वं क्षेत्रात् कामदुघा म एषा ।
इदं धनं नि दधे ब्राह्मणेषु
कृण्वे पन्थां पितृषु यः स्वर्गः ॥
अग्नौ तुषाँ आ वप जातवेदसि
परः कम्बूकान् उप मृढ्य् एतान् ।
एतं शुश्रुम गृहराजस्य भागम्
अथो विद्म निरृतेर् भागधेयम् ॥
श्राम्यतः पचत एधि सुन्वतः
स्वर्गं लोकम् अधि रोहयैनम् ।
येन रोहात् परम् आपद्य यद् वयः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0