भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.92

16.92.1

बभ्रेर् अध्वर्यो मुखम् एतद् वि मृड्ढ्य्
आज्याय लोकं कृणुहि प्रजानन् ।
घृतेन गात्रानु सर्वा वि मृड्ढि
कृण्वे पन्थां पितृषु यः स्वर्गः ॥

16.92.2

बभ्रे रक्षः समदम् आ वपैभ्यो
ब्राह्मणा यतमे त्वोपसीदान् ।
पुरीषिणः प्रथमानाः पुरस्ताद्
आर्षेयास् ते मा रिषन् प्राशितारः ॥

16.92.3

आर्षेयेषु नि दध ओदन त्वा
नानार्षेयाणाम् अप्य् अस्त्य् अत्र ।
अग्निर् मे गोप्ता मरुतश् च सर्वे
विश्वे देवा अभि रक्षन्तु पक्वम् ॥

16.92.4

यज्ञं दुहानं सदम् इत् प्रपीनं
पुमांसं धेनुं सदनं रयीणाम् ।
प्रजामृतत्वम् उत दीर्घम् आयू
रायश् च पोषम् उप त्वा सदेम ॥

16.92.5

वृषभो ऽसि स्वर्ग ऋषीन् आर्षेयान् गच्छ ।
सुकृतां लोके सीद तन् नौ संकृतम् ॥

16.92.6

सम् आ चिनुष्वानुसंप्रेह्य्
अग्ने पथः कल्पय देवयानान् ।
एभिः सुकृतैर् अनु प्र ज्ञेष्म यज्ञे
नाके तिष्ठन्तम् अधि सप्तरश्मौ ॥

16.92.7

येन देवा ज्योतिषा द्याम् उदायन्
ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् ।
तं त्वा पचामि ज्योतिषां ज्योतिर् उत्तमं
स नस् तं धेहि सुकृताम् उलोके ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc