भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.90

16.90.1

उपश्वसे द्रुवये सीदता यूयं
वि विच्यध्वं यज्ञियासस् तुषैः ।
श्रिया समानान् अति सर्वान्त् स्याम-
-अधस्पदं द्विषतस् पादयेम ॥

16.90.2

इयं ते धीतिर् इदम् उ ते जनित्रं
गृह्णातु त्वाम् अदितिः शूरपुत्रा ।
परा पुनीहि य इमां पृतन्यवो
अस्मै रयिं सर्ववीरं नि यच्छ ॥

16.90.3

परेहि नारि पुनर् एहि क्षिप्रम्
अपां त्वा गोष्ठो अध्य् अरुक्षद् भराय ।
तासां गृह्णीताद् यतमा यज्ञिया
असन् विभाज्य धीरीतरा जिहीतात् ॥

16.90.4

एमा अगुर् योषितः शुम्भमाना
उत् तिष्ठ नारि तवसं रभस्व ।
सुपत्नी पत्या प्रजावत्या त्वा-
- अगन् यज्ञः प्रति कुम्भं गृभाय ॥

16.90.5

ऊर्जो भागो निहितो यः पुरा व
ऋषिप्रशिष्टाप आ हरैताः ।
अयं यज्ञो नाथविद् गातुवित् प्रजाविद्
उग्रः पशुमद् वीरविद् वो अस्तु ॥

16.90.6

अग्ने चरुर् यज्ञियस् त्वाध्य् अरुक्षच्
छुचिस् तपिष्ठस् तपसा तपैनम् ।
आर्षेया दैवा अभिसंगत्य भागम्
इमं तपिष्ठा ऋतुभिस् तपन्तु ॥

16.90.7

शुद्धा आपो योषितो यज्ञिया इमा
आपश् चरुम् इव सर्पन्तु शुभ्राः ।
ददत् प्रजा बहुलान् पशून् मे
पक्तौदनस्य सुकृताम् एतु लोकम् ॥

16.90.8

ब्रह्मणा शुद्धा उत पूता घृतेन
सोमस्यांशवस् तण्डुला यज्ञिया इमे ।
अपः प्र विशतु प्रति गृह्णातु वश्
चरुर् इमं पक्त्वा सुकृताम् एतु लोकम् ॥

16.90.9

अभ्यावर्तस्व प्रजया सहैनां
प्रत्यङ् एनं देवताभिः सहैधि ।
स्वर्गं लोकम् अभि सं वहैनम्
आदित्यो देवः परमं व्योम ॥

16.90.10

उरुः प्रथस्व महता महिम्ना
सहस्रपृष्ठः सुकृतस्य लोके ।
पितामहाः पितरः प्रजोपज-
-अहं पक्त्वा पञ्चदशस् ते अस्मि ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc