भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.89

16.89.1

अग्ने जायस्वादितिर् नाथितेयं
ब्रह्मौदनं पचति पुत्रकामा ।
सप्तऋषयो भूतकृतस् ते त्वा
मन्थन्तु प्रजया सहेह ॥

16.89.2

कृणुत धूमं वृषणः सखायो
ऽद्रोघाविता वाचम् अच्छ ।
अयम् अग्निः पृतनाषाट् सुवीरो
येन देवा असहन्त शत्रून् ॥

16.89.3

अग्ने ऽजनिष्ठा महते वीर्याय
ब्रह्मौदनाय पक्तवे जातवेदः ।
सप्तर्षयो भूतकृतस्
ते त्वाजीजनन्न् अस्मै
रयिं सर्ववीरं नि यच्छ ॥

16.89.4

समिद्धो अग्ने समिधा समिध्यसे
विश्वान् देवान् यज्ञियाँ एह वक्षः ।
तेभ्यो हव्यं श्रपयञ् जातवेदः
स्वर्गं लोकम् अधि रोहयैनम् ॥

16.89.5

त्रेधा भागो निहितो जातवेदो
यः पुरो वो देवानां
पितॄणाम् उत मर्त्यानाम् ।
अंशां जानीध्वं वि भजामि
तं वो यो देवानां सा इमं पारयाति ॥

16.89.6

अग्ने सहस्वान् अभिभूर् अभीद् असि
नीचो न्युब्ज द्विषतः सपत्नान् ।
इयं मात्रा मीयमाना मिता च
सजातांस् ते बलिहृतः कृणोतु ॥

16.89.7

साकं सजातैः पयसा सहैध्य्
उद् उब्जैनं महते वीर्याय ।
ऊर्ध्वो नाकस्याधि रोह विष्टपः
स्वर्गो लोक इति यं वदन्ति ॥

16.89.8

इयं मही प्रति गृह्णातु चर्म
पृथिवी देवी सुमनस्यमाना ।
अधि गच्छेम सुकृताम् उलोकम् ॥

16.89.9

एतौ ग्रावाणौ सयुजा
युङ्धि चर्मणि निर् भिन्ध्य्
अंशून् यजमानाय साधु ।
अवघ्नती नि जहि ये पृतन्यव
ऊर्ध्वां प्रजाम् उद्धरन्त्य् उद् ऊह ॥

16.89.10

गृहाण ग्रावाणौ सुकृता वीर हस्त
आ ते देवा यज्ञिया यज्ञम् अगुः ।
त्रयो वरा यतमांस् त्वं वृणीषे
तास् ते समृद्धीर् इह राधायामि ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc