पैप्पलाद-संहिता · अध्याय 16.80
ये कुकुन्धाः कुकूरभाः
कृत्तीर् दूर्शानि बिभ्रति ।
क्लीबा इव प्रनृत्यन्तो
घोषां ये कुर्वते वने
तान् इतो नाशयामसि ॥
येषां पश्चात् प्रपदे
पुरः पार्ष्णी पुरो मुखम् ।
खलजाः शकधूमजा
उरुण्डा ये च मट्मटाः
कुम्भमुष्का अयाशवः ।
तान् अस्या ब्रह्मणस्पते
प्रतीबोधेन नाशय ॥
ये सूर्यं न तितिक्षन्त
आतपन्तम् अमुं दिवः ।
अरायान् बस्तवासिनो
दुर्गन्धींल् लोहितास्यान्
मककान् नाशयामसि ॥
ये सूर्यात् परिसर्पन्ति
स्नुषेव श्वशुराद् अधि ।
बजश् च तेषां पिङ्गश् च
हृदये ऽधि नि विध्यताम् ॥
य आत्मानम् अतिमात्रम्
अंश आधाय बिभ्रति ।
स्त्रीणां श्रोणिप्रतोदिन
इन्द्र रक्षांसि नाशय ॥
ये पूर्वे वध्वो यन्ति
हस्ते शृङ्गाणि बिभ्रतः ।
आपाकेस्थान् प्रहासिन
स्तम्बे ये कुर्वते ज्योतिस्
तान् इतो नाशयामसि ॥
पर्यस्ताक्षाः प्रचङ्कशा
स्त्रैणाः सन्तु पण्डगाः ।
अव भेषज पातय
य इमां संविवृत्सत्य्
अपतिः स्वपतीं स्त्रियम् ॥
उद्धर्षिणं मुनिकेशं
जम्भयन्तं मरीमृशम् ।
उपेषन्तम् उदुम्बलं
तुण्डेनम् उत शालुडम् ।
पदा प्र विध्य पार्ष्ण्या
स्थालीं गौर् इव स्यन्दना ॥
यस् ते गर्भं प्रतिमृशाज्
जातं वा मारयाति ते ।
पिङ्गस् तम् उग्रधन्वा
कृणोतु हृदयाविधम् ॥
ये अम्नो जातान् मारयन्ति
सूतिका अनुशेरते ।
स्त्रीभागान् पिङ्गो गन्धर्वान्
अभ्रं वात इवाजतु ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0