पैप्पलाद-संहिता · अध्याय 16.81
परिशिष्टं धारयतं
यद् धितं माव पादि तत् ।
गर्भं त उग्रौ रक्षतां
भेषजौ नीविभार्यौ ॥
परिपाणं पुरुषाणां
रक्षसाम् असि चातनम् ।
अरायान् सर्वान् दुर्णाम्नो यातुधानान्
विषूचीनान् वि नाशय ॥
पवीनसात् तङ्गल्वाच्
छायकाद् उत नग्नकात् ।
प्रजायै पत्ये त्वा पिङ्गः
परि पातु किमीदिनः ॥
द्व्यास्याश् चतुरक्षाः
पञ्चपादाद् अनङ्गुलेः ।
वृन्दाद् अभि प्रसर्पतः
परि पाहि वरीवृतात् ॥
य आमं मांसम् अदन्ति
पौरुषेयं च ये क्रविर्
गर्भान् खादन्ति केशवाः ।
अरायान् अस्या भंससो
मुष्कयोर् अप हन्मसि ॥
पिङ्ग रक्ष जायमानं
पुमांसं मा स्त्रियं क्रन् ।
आण्डादो गर्भं मा दभन्
बाधस्वेतः किमीदिनः ॥
अप्रजास्त्वं मार्तवत्सम्
आद् रोदम् अघम् आवयम् ।
वृक्षाद् इव स्रजं कृत्वा-
-अप्रिये प्रति मुञ्च तत् ॥
पिङ्ग जहि यातुधानान्
दुर्गन्धींल् लोहितास्यान् ।
त्वया प्रणुत्ताः क्रव्यादो
विष्वञ्चो यन्तु निर्हताः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0