पैप्पलाद-संहिता · अध्याय 16.61
केन देवाँ अनु क्षियति
केन दैवीर् अजनयद् दिशः ।
केनेदम् अन्यन् नक्षत्रं
केन सत् क्षत्रम् उच्यते ॥
केन पर्जन्यम् आप्नोति
केन सोमं विचक्षणम् ।
केनेमम् अग्निं पुरुषः
केन संवत्सरं ममे ॥
केनेयं भूमिर् निहिता
केन द्यौर् उत्तरा हिता ।
केनेदम् ऊर्ध्वं तिर्यक् च-
-अन्तरिक्षं व्यचो हितम् ॥
ब्रह्मणा भूमिर् निहिता
ब्रह्म द्याम् उत्तरां दधौ ।
ब्रह्मेदम् ऊर्ध्वं तिर्यक् च-
-अन्तरिक्षं व्यचो हितम् ॥
केन श्रोत्रियम् आप्नोति
केनेमं परमेष्ठिनम् ।
केन यज्ञश् च श्रद्धा च
केनास्मिन् निहितं मनः ॥
ब्रह्म श्रोत्रियम् आप्नोति
ब्रह्मेमं परमेष्ठिनम् ।
ब्रह्म यज्ञश् च श्रद्धा च
ब्रह्मास्मिन् निहितं मनः ॥
क इदम् अस्थ्य् असृजत
क इदं मांसं सम् अभरत् ।
क इमां त्वचं च लोम च
क इदं रूपं सम् ऐरयत् ॥
ब्रह्मास्थ्य् असृजत
ब्रह्म मांसं सम् अभरत् ।
ब्रह्म त्वचं च लोम च
ब्रह्म रूपं सम् ऐरयत् ॥
क इदं चक्षुर् असृजत
कः प्राणं खेष्व् आवयत् ।
क इदं मनश् च वाचं च
क इमां सम् अभरत् पुरम् ॥
ब्रह्म चक्षुर् असृजत
ब्रह्म खे प्राणम् आवयत् ।
ब्रह्म मनश् च वाचं च
ब्रह्म सम् अभरत् पुरम् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0