पैप्पलाद-संहिता · अध्याय 16.60
प्रियाप्रियाणि बहुला
स्वप्नं संबाधतन्द्र्यः ।
आनन्दम् उग्रो नन्दांश् च
तान् उद् वहति पूरुषः ॥
आर्तिर् अवर्तिर् निरृतिः
कुतो नु पुरुषे ऽमतिः ।
राद्धिः समृद्धिर् अव्यृद्धिर्
मतिर् उदितयः कुतः ॥
को अस्मिन्न् आपो अदधाद् विषूवृतः
पुरूच्युतः सिन्धुसृत्याय जाताः ।
तीव्रारुणा लोहिनीस् ताम्रधूम्रा
ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ॥
को अस्मिन् प्राणम् अदधात्
को अपानं व्यानम् उ ।
समानम् अस्मिन् को देवो
ऽधि शिश्राय पूरुषे ॥
को अस्मिन् रूपम् अदधात्
को मह्मानं च नाम च ।
गातुं को अस्मिन् कः केतुं
कश् चरित्राणि पूरुषे ॥
को अस्मिन् रेतो अदधात्
तन्तुर् आ तायताम् इति ।
मेधां को अस्मिन्न् अध्य् औहत्
को बाणं को नृतो दधौ ॥
को वाससा पर्य् अदधात्
को अस्यायुर् अकल्पयत् ।
बलं को अस्मै प्रायच्छत्
को अस्याकल्पयज् जवम् ॥
को अस्मिन् यज्ञम् अदधाद्
एको अग्रे अधि पूरुषे ।
को अस्मिन् सत्यं को ऽनृतं
को मृत्युं को ऽमृतं दधौ
केनापो अन्व् अतनुत
केनाहर् अकृणोद् रुचे ।
उषसं केनान्वैन्ध
केन सायंभवं ददे ॥
केनेमां भूमिम् और्णोत्
केन पर्य् अभवद् दिवम् ।
केनाभि मह्ना पर्वतान्
केन कर्माणि पूरुषः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0