भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.62

16.62.1

नैनं चक्षुर् जहाति
न प्राणो जरसः पुरः ।
पुरं यो ब्रह्मणो वेद
यस्मात् पुरुष उच्यते ॥

16.62.2

यो वै तां ब्रह्मणो वेद-
- अमृतेनावृतां पुरम् ।
तस्मै ब्रह्म च ब्राह्म्याश् च-
-आयुष् प्राणं प्रजां ददुः ॥

16.62.3

अष्टाचक्रा नवद्वारा
देवाणां पूर् अयोध्या ।
तस्यां हिरण्ययः कोशः
स्वर्गो ज्योतिषावृतः ॥

16.62.4

तस्मिन् हिरण्यये कोशे
त्र्यरे त्रिप्रतिष्ठिते ।
तस्मिन् यद् अन्तर् आत्मन्वत्
तद् वै ब्रह्मविदो विदुः ॥

16.62.5

प्रभ्राजमानां हरिणीं
यशसा संपरीवृताम् ।
पुरं हिरण्मयीं ब्रह्मा
विवेशापराजिताम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc