भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.53

16.53.1

तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखं
सूर्याचन्द्रमसाव् अक्ष्यौ बृहद्रथन्तरे श्रोत्रे ।
अग्निर् आस्यं विद्युज् जिह्वा
मरुतो दन्ताः पवमानः प्राणः ॥

16.53.2

ओषधयो लोमानि वनस्पतयः केशाः
समुद्रो मूत्रम् अश्विना प्रपदे ।
चरुं पञ्चबिलम् उखं घर्मम् अभीन्धे ॥

16.53.3

चक्षुर् मुसलं काम उलूखलं
दितिः शूर्पम् अदितिः शूर्पग्राही वातो अपाविनक् ।
गावस् तण्डुला अश्वाः कणा मशकास् तुषाः
कब्रु फलीकरणाः श्यामम् अयो लोहितम् अयो ऽस्य मांसम् ॥

16.53.4

त्रपु भस्मार्जुनम् अस्थीनि
हरितं वर्णः पुष्कलं गन्धः ।
खलः पात्रम् उष्टारौ बाहू स्फ्याव् अंसौ
गुदा वरत्रा ईषानूक्यं युगानि जत्रवः ॥

16.53.5

ऋतं हस्ताभिषेचनं कुल्योपसेचनम्
आर्तवाः पक्तारो अग्निः प्राशीता ब्राह्मणः प्रतिग्रहीता ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc