पैप्पलाद-संहिता · अध्याय 16.52
अपास्माद् ब्राह्मणीसन्धाम्
अपधारान् नि दध्मसि ।
इन्द्राग्नी नः सवेदसाव्
अर्णवाद् अधि मुञ्चताम् ॥
नमस् ते ब्राह्मणीसन्धे
परेहि यत एयथ
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस्
तं ते प्र सुवामि तम् अधि प्र सूताः ॥
अपारं त्वाहुर् अर्णवम्
अनिनायां न ये विदुः ।
यस् ते वेदोदरम् आस्यं
महत् साक्षाद् वेद मुखं
तव नियाजं तव ते विदुः ॥
इन्द्रेण क्ल्̥प्ता योनिर्
नरको अस्याः कुलायम् ।
महान् समुद्रो रजसो विमानः
स्वर्गे लोके अपि नः कृणोतु ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0