भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.40

16.40.1

अग्निम् अन्तश् छादयसि
पुरुषान् पशुभिः सह ।
विजावति प्रजावति
वि ते पाशांश् चृतामसि ॥

16.40.2

ऊर्जस्वती घृतवती
पृथिव्यां निमिता मिता ।
विश्वान्नं बिभ्रती शाला
मा हिंसीः प्रतिगृह्णतः ॥

16.40.3

यस् त्वा पूर्वो निमिमाय
संजभार वनस्पतीन् ।
प्रजायै चक्रे त्वा शाले
परमेष्ठी प्रजापतिः ॥

16.40.4

नमस् तस्मै नमो दात्रे
शालापतये च कृण्मसि ।
नमो ऽग्नये प्रचरते
पुरुषाय च ते नमः ॥

16.40.5

गोभ्यो अश्वेभ्यो नमो
यच् छालायां विजायते ।
अन्तरा द्यां च पृथिवीं च यद् व्यचस्
तेन शालां प्रति गृह्णामि त इमाम् ॥

16.40.6

यद् अन्तरिक्षं रजसो विमानं
तत् कृण्व उदरं शेवधिभ्यः ।
यच् छालां प्रति गृणामि तस्मै ॥

16.40.7

तृणैर् आवृता पलदान् वसाना
रात्रीव शाला जगतो निवेशनी ।
मिता पृथिव्यां तिष्ठति
हस्तिनीव पद्वती ॥

16.40.8

या द्विपक्षा चतुष्पक्षा
षट्पक्षा या निमीयते ।
अष्टापक्षां दशपक्षां
शालां मानस्य पत्नीम्
अग्निर् गर्भ इवा शये ॥

16.40.9

इटस्य ते वि चृताम्य्
अपिनद्धम् अपोर्णुवन् ।
वरुणेन समुब्जितां
मित्रः प्रातर् व्य् उब्जतु ॥

16.40.10

कुलाये ऽधि कुलायां
कोशे कोशः समुब्जितः ।
तत्र मर्तो वि जायते
यस्माद् विश्वं प्रजायते ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc