पैप्पलाद-संहिता · अध्याय 16.41
चतुःस्रक्तिं परिचक्रां
कविभिर् निमितां मिताम् ।
इन्द्राग्नी रक्षतः शालाम्
अमृतौ सोम्यं सदः ॥
मा नः पाशान् प्रति मुचो
गुरुर् भारो लघुर् भव ।
वधूम् इव त्वा शाले
यत्रकामं भरामसि ॥
इमा आपः प्र हराम्य्
अयक्ष्मा यक्ष्मनाशनीः ।
गृहान् अभि प्र सीदाम्य्
अमृतेन सहाग्निना ॥
प्रतीचीं त्वा प्रतीचीनः
शाले प्रैम्य् अहिंसतीम् ।
अग्निर् ह्य् अन्तर् आपश् च-
-ऋतस्य प्रथमोभा ॥
स्वाहा देवेभ्यः स्वाह्येभ्यः
प्राच्या दिशः शालाया नमो महिम्ने ॥
स्वाहा देवेभ्यः स्वाह्येभ्यो
दक्षिणस्या दिशः शालाया नमो महिम्ने ॥
स्वाहा देवेभ्यः स्वाह्येभ्यः
प्रतीच्या दिशः शालाया नमो महिम्ने ॥
स्वाहा देवेभ्यः स्वाह्येभ्य
उदीच्या दिशः शालाया नमो महिम्ने ॥
स्वाहा देवेभ्यः स्वाह्येभ्यो
ध्रुवाया दिशः शालाया नमो महिम्ने ॥
स्वाहा देवेभ्यः स्वाह्येभ्य
ऊर्ध्वाया दिशः शालाया नमो महिम्ने ॥
स्वाहा देवेभ्यः स्वाह्येभ्यो
दिशोदिशः शालाया नमो महिम्ने ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0