पैप्पलाद-संहिता · अध्याय 16.29
इन्द्रो मन्थतु मन्थिता
शक्रः शूरः पुरन्दरः ।
यथा हनाम सेनाम्
अमित्राणां सहस्रशः ॥
पूतिरज्जुर् उपध्मानी
पूतिं सेनां कृणोत्व् अमूम् ।
अग्निं धूमं परादृश्य
हृत्स्व् आ दधतां भयम् ॥
परुषान् अमून् परुषाह्वः कृणोतु
हन्त्य् एनान् वधको वधैः ।
क्षिप्रं शर इव भज्यन्तां
बृहज्जालेन संजिताः ॥
अमून् अश्वत्थ नि शृणीहि
खादामून् खदिराजिरम् ।
ताजद्भङ्ग इव भज्यन्तां
बृहज्जालेन संजिताः ॥
अन्तरिक्षं जालम् आसीज्
जालदण्डा दिशो महीः ।
तेनाभिदाय सेनाम्
इन्द्रो दस्यून् अपावपत् ॥
बृहत् ते जालं बृहत इन्द्र शूर
सहस्रार्घस्य शतवीर्यस्य ।
तेना न्य् उब्ज मघवन्न् अमित्रान्
शश्वतीभ्यः समाभ्यः ॥
बृहत् ते जालं बृहतश्
शक्रस्य वाजिनीवतः ।
तेना शतं सहस्रम् अयुतं जघान-
-इन्द्रो दस्यूनाम् अभिधाय सेनाम् ॥
अयं लोको जालम् आसीच्
छक्रस्य महतो महान् ।
तेनाहम् इन्द्रजालेन
तमसामून् अभि दधामि सर्वान् ॥
सेदिर् उग्रावर्तिर्
आर्तिश् चानपवाचना ।
श्रमस् तन्द्रीश् च मोहश् च
तैर् अमून् अभि दधामि सर्वान् ॥
मृत्यवे अमून् प्र यच्छामि
मृत्युपाशैर् अमी सिताः ।
मृत्योर् ये अघला दूतास्
तेभ्य एनान् प्रति नयामि बद्ध्वा ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0