पैप्पलाद-संहिता · अध्याय 16.30
मृत्युदूता अमून् नयत
यमदूता अपोम्भत ।
परः सहस्रा हन्यन्तां
तृणेढ्व् एनान् मत्यं भवस्य ॥
साध्या एकं जालदण्डम्
उद्यत्य यन्त्य् ओजसा ।
रुद्रा द्वितीयं वसवस् तृतीयम्
आदित्यैर् एक उद्यतः ॥
विश्वे देवा उपरिष्टाद्
उब्जन्तो यन्त्व् ओजसा ।
मध्येन घ्नन्तो यन्तु
सेनाम् अङ्गिरसो वधैः ॥
वनस्पतीन् वानस्पत्यान्
ओषधीर् उत वीरुधः ।
द्विपाच् चतुष्पाद् इष्णामि
यथा सेनाम् अमूं हनत् ॥
गन्धर्वाप्सरसो देवान्
सर्पान् पुण्यजनान् पितॄन् ।
दृष्टान् अदृष्टान् इष्णामि
यथा सेनाम् अमूं हनत् ॥
मृत्युपाशा इमे युक्ता
यान् आक्रम्य न मुच्यसे ।
अमुष्या हन्तु सेनाया
इदं कूटं सहस्रशः ॥
घर्मः समिद्धो अग्निना-
-अयं होमः सहस्रहा ।
भवश् च पृश्निबाहुः
शर्व सेनाम् अमूं हतम् ॥
मृत्योर् ओषम् आ पद्यन्तां
क्षुधं सेदिं वधं भयम् ।
इन्द्रश् चाक्षुजालाभ्यां
शर्व सेनाम् अमूं हतम् ॥
पराजिताः प्र त्रसतामित्रा
जिता धावत ब्रह्मणा ।
बृहस्पतिप्रणुत्तानां
मामीषां मोचि कश् चन ॥
अव पद्यन्ताम् एषाम् आयुधानि
मा शकन् प्रतिधाम् इषुम् ।
अथैषां बहु बिभ्यताम्
इषवो घ्नन्तु मर्मणि ॥
सम् एनान् क्रोशतां द्यावापृथिवी उभे
सम् अन्तरिक्षं सह देवताभिः ।
मा ज्ञातारं मा प्रतिष्ठां विदन्त
मिथो ऽपिघ्नाना उप यन्तु मृत्युम् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0