पैप्पलाद-संहिता · अध्याय 16.23
एकं पदं नोत् खिदति
सलिलाद् धंस उत्पतन् ।
यद् अङ्ग स तम् उत्खिदेन्
नैवाद्य न श्वो
न रात्री नाहः स्यान्
न प्रज्ञायैति किं चन ॥
अष्टाचक्रं वर्तत एकनेमि
सहस्राक्षरं प्र पुरो नि पश्चात् ।
अर्धेनेदं परि बभूव विश्वं
यद् अस्यार्धं कतमः स केतुः ॥
यो अस्य विश्वजन्मन
ईशे सर्वस्य चेष्टतः ।
अन्येषु क्षिप्रधन्वने
तस्मै प्राण नमो ऽस्तु ते ॥
यो अस्य सर्वजन्मन
ईशे विश्वस्य चेष्टतः ।
अतन्द्रो ब्रह्मणा धीरः
प्राणो माम् अभि रक्षतु ॥
ऊर्ध्वः सुप्तेषु जागार
ननु तीर्यङ् नि पद्यते ।
न सुप्तम् अस्य सुप्तेष्व्
अनु शुश्राव कश् चन ॥
प्राण मा मत् पर्यावृतो
न मद् अन्यो भविष्यसि ।
अपां गर्भम् इव जीवसे
प्राण बध्नामि त्वा मयि ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0