पैप्पलाद-संहिता · अध्याय 16.22
प्राणो मृत्युः प्राणो अमृतं
प्राणं देवा उपासते ।
प्राणो ह सत्यवादिनम्
उत्तमे लोक आ दधत् ॥
प्राणो विराट् प्राणो देष्ट्री
प्राणं सर्वा उपासते ।
प्राणो ऽग्निश् चन्द्रमाः सूर्यः
प्राणम् आहुः प्रजापतिम् ॥
प्राणापानौ व्रीहयवाव्
अनड्वान् प्राण उच्यते ।
यवे ह प्राण आहितो
अपानो व्रीहिर् उच्यते ॥
अपानति प्राणति
पुरुषो गर्भे अन्तः ।
यदा त्वं प्राण जिन्वस्य्
अथ स जायते त्वत् ॥
प्राणम् आहुर् मातरिश्वानं
वातो ह प्राण उच्यते ।
प्राणे ह भूतं भव्यं च
प्राणे सर्वं समाहितम् ॥
आथर्वणीर् आङ्गिरसीर्
दैवीर् मनुष्यजाश् च याः ।
सर्वाः प्र मोदन्त ओषधीर्
यदा त्वं प्राण जिन्वसि ॥
यदा प्राणो अभ्यवर्षीद्
वर्षेण पृथिवीं महीम् ।
ओषधयः प्र मोदन्ते
अथो याः काश् च वीरुधः ॥
यस् ते प्राणेदं वेद
यस्मिंश् चासि प्रतिष्ठितः ।
सर्वे अस्मै बलिं हरान्
अमुष्मिंल् लोक उत्तमे ॥
यथा प्राण बलिहृतस्
तुभ्यं सर्वाः प्रजा इमाः ।
एवा तस्मै बलिं हरान्
यस् त्वा शुश्राव शुश्रुवुः ॥
अन्तर्गर्भश् चरति देवतास्व्
आभूतो भूतः स उ जायते पुनः ।
स भूतं भव्यं भुवनं भविष्यत्
पिता पुत्रं प्र विवेशा शचीभिः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0