भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.16

16.16.1

पैद्वस्य मन्महे वयं
स्थिरस्य स्थिरधाम्नः ।
इमे पश्चात् पृदाकवः
प्रदीध्यत आसते ॥

16.16.2

नष्टासवो नष्टविषा
हता इन्द्रेण वज्रिणा ।
जघानेन्द्रो जघ्निमा वयम् ॥

16.16.3

हतास् तिरश्चिराजयो
निपिष्टासः पृदाकवः ।
दर्विं करिक्रतं श्वित्रं
दर्भेष्व् असितं जहि ॥

16.16.4

कैरातिका कुमारिका
सखा खनति भेषजम् ।
हिरण्ययीभिर् अभ्रिभिर्
गिरीणाम् उप सानुषु ॥

16.16.5

आयम् अगन् युवा भिषक्
पृश्निहापराजितः ।
स वै स्वजस्य जम्भन
उभयोर् वृश्चिकस्य च ॥

16.16.6

इन्द्रो मे ऽहीन् अजम्भयन्
मित्रश् च वरुणश् च ।
वातापर्जन्योभा ॥

16.16.7

पैद्वो मे ऽहीन् अजम्भयत्
पृदाकूंश् च पृदाक्वः ।
स्वजान् तिरश्चिराजीन्
कसर्णीलान् दशोनशीन् ॥

16.16.8

इन्द्रो जघान प्रथमो
जनितारम् अहे तव ।
तेषां वस् तृह्यमाणानां
कः स्वित् तेषाम् असद् रसः ॥

16.16.9

सं हि शीर्षाण्य् अग्रभं
पौञ्जिष्ट इव कर्वरम् ।
सिन्धोर् मध्यं परेत्य
व्य् अनिजम् अहेर् विषम् ॥

16.16.10

अहीनां सर्वेषां विषं
परा वहन्तु सिन्धवः ।
हतास् तिरश्चिराजयो
निपिष्टासः पृदाकवः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc