पैप्पलाद-संहिता · अध्याय 16.15
इन्द्रस्य प्रथमो रथो
देवानाम् अपरो रथो
वरुणस्य तृतीय इत् ।
अहीनाम् अपमा रथ
स्थाणुम् आरद् अथा रिषत् ॥
दर्भः शोचिस् तरूणकम्
अश्वस्य वारः पुरुषस्य वारः ।
रथस्य बन्धुरम्
अहीनाम् अरसं विषं वार् इद् उग्रम् ॥
अव श्वेत पदा जहि
पूर्वेण चापरेण च ।
उदप्लुतम् इव दार्व्
अहीनाम् अरसं विषं वार् इद् उग्रम् ॥
अरंघसो निमज्य-
-उन्मज्य पुनर् अब्रवीत् ।
उदप्लुतम् इव दार्व्
अहीनाम् अरसं विषं वार् इद् उग्रम् ॥
पैद्वो हन्ति कषर्णीलं
पैद्वः श्वित्रम् उतासितम् ।
पैद्वो रथर्व्याः शिरः
सं बिभेद पृदाक्वाः ॥
पैद्व प्रेहि प्रथमो
अनु त्वा वयम् एमसि ।
अहीन् व्य् अस्यतात् पथो
येन स्मा वयम् एमसि ॥
इदं पैद्वो अजायत-
-इदम् अस्य परायणम् ।
इमान्य् अर्वतः पदा-
-अहिघ्न्यो वाजिनीवतः ॥
संयतं न वि ष्परद्
व्यात्तं न सं यमत् ।
अस्मिन् क्षेत्रे द्वाव् अही
स्त्री च पुमांश् च ता उभा अरसा ॥
अरसास इहाहयो
ये अन्ति ये च दूरके ।
घनेन हन्मि वृश्चिकम्
अहिं दण्डेनागतम् ॥
अघाश्वस्येदं भेषजम्
उभयोः स्वजस्य च ।
इन्द्रो मह्यम् अघायन्तम्
अहिं पैद्वो अरुन्धयत् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0