पैप्पलाद-संहिता · अध्याय 16.17
ओषधीनाम् अहं वृण
उर्वरीर् इव साधुया ।
नयाम्य् अर्वतीर् इव-
-अहे निर् ऐतु ते विषम् ॥
यद् अग्नौ सूर्ये विषं
पृथिव्याम् ओषधीषु यत् ।
कान्दाविषं कनिक्लकं
निर् ऐत्व् ऐतु ते वहिः ॥
अङ्गादङ्गात् प्र च्यावय
हृदयं परि वर्जय ।
अधा विषस्य यत् तेजो
अवाचीनं तद् एतु ते ॥
अग्ने त्रायस्व विमदं नयेमं
पुनर् धेहि जीवसे जातवेदः ।
मा ते हेडांसि दुरिताव गन्म
माहिर् वधीद् विषतः पुरुषं नः ॥
ये अग्निजा ओषधिजा अहीनां
ये अभ्रजा विद्युत आ बभूवुः ।
तेषां जातानि बहुधा बहूनि
तेभ्यः सर्पेभ्यो नमसा विधेम ॥
तौदी नामासि कन्या
घृताची नाम वा असि ।
अधस्पदेन ते पदोर्
आ ददे विषदूषणम् ॥
आरे अभूद् विषम् अरौद्
विषे विषम् अप्राग् अपि ।
अग्निर् अहेर् निर् अधाग् विषं सोमो निर् अणयीत् ।
दंष्टारम् अन्व् अगाद् विषम् अहिर् अमृत ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0