पैप्पलाद-संहिता · अध्याय 16.136
अघायताम् अपि नह्या मुखानि
सपत्नेषु वज्रम् अर्पयैतम् ।
इन्द्रेण दत्ता प्रथमा शतौदना
भ्रातृव्यघ्नी यजमानाय गातुः ॥
वेदिष् टे चर्म भवतु
बर्हिर् लोमानि यानि ते ।
एषा त्वा रशनाग्रहीद्
ग्रावा त्वैषो ऽधि नृत्यतु ॥
बालास् ते प्रोक्षणीः सन्तु
जिह्वा सं मार्ष्ट्व् अघ्न्ये ।
शुद्धा त्वं यज्ञिया भूत्वा
दिवं प्रेहि शतौदने ॥
यः शतौदनां पचति
कामप्रेण स कल्पते ।
प्रीता ह्य् अस्य ऋत्विजः
सर्वे यन्ति यथायथम् ॥
ये ते देवि शमितारः
पक्तारो ये च ते जनाः ।
एते त्वा सर्वे गोप्स्यन्ति
मैभ्यो भैषीः शतौदने ॥
स स्वर्गम् आ रोहति
यत्रादस् त्रिदिवं दिवः ।
हिरण्यज्योतिषं कृत्वा
यो ददाति शतौदनाम् ॥
स तांल् लोकान् सम् आप्नोति
येषु देवाः समासते ।
अपूपं नाभिं कृत्वा
यो ददाति शतौदनाम् ॥
वसवस् त्वा दक्षिणत
उत्तरान् मरुतस् त्वा ।
आदित्याः पश्चाद् गोप्स्यन्ति
सातिरात्रम् अग्निष्टोमम् अति द्रव ॥
गन्धर्वा अप्सरसो देवि
रुद्रा अङ्गिरसस् त्वा ।
एते त्वा सर्वे गोप्स्यन्ति
सातिरात्रम् अग्निष्टोमम् अति द्रव ॥
अन्तरिक्षं दिवं भूमिम्
आदित्यान् मरुतो दिशः ।
लोकान् सर्वान् आप्नोति
यो ददाति शतौदनाम् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0