पैप्पलाद-संहिता · अध्याय 16.135
सोद् अक्रामत् सासुरान् आगच्छत्
ताम् असुरा उपाह्वयन्त माय एहीति ।
तस्या विरोचनः प्राह्रादुर् वत्स आसीद् अयस्पात्रं पात्रम् ।
तां द्विमूर्धार्त्वियो ऽधोक् तां मायाम् अधोक् ।
तां मायाम् असुरा उप जीवन्त्य्
उपजीवनीयो भवति य एवं वेद ॥
(…) सा पितॄन् आगच्छत्
तां पितर उपाह्वयन्त स्वध एहीति ।
तस्या यमो वैवस्वतो वत्स आसीद् रजतपात्रं पात्रम् ।
ताम् अन्तको मार्तयो ऽधोक् तां स्वधाम् अधोक् ।
तां स्वधां पितर उप (…) ॥
(…) सा मनुष्यान् आगच्छत्
तां मनुष्या उपाह्वयन्तेरावत्य् एहीति ।
तस्या मनुर् वैवस्वतो वत्स आसीत् पृथिवीपात्रं पात्रम् ।
तां पृथुर् वैन्यो ऽधोक् तां कृषिं च सस्यं चाधोक् ।
तां कृषिं च सस्यं च मनुष्य उप (…) ॥
(…) सा देवान् आगच्छत्
तां देवा उपाह्वयन्तोर्ज एहीति ।
तस्या इन्द्रो वत्स आसीद् दारुपात्रं पात्रम् ।
तां सविताधोक् ताम् ऊर्जम् अधोक् ।
ताम् ऊर्जं देवा उप (…) ॥
(…) सा सप्त ऋषीन् आगच्छत्
तां सप्त ऋषय उपाह्वयन्त ब्रह्मण्वत्य् एहीति ।
तस्याः सोमो वत्स आसीच् छन्दःपात्रं पात्रम् ।
तां बृहस्पतिर् आङ्गिरसो ऽधोक् तां ब्रह्म च तपश् चाधोक् ।
तद् ब्रह्म च तपश् च सप्त ऋषय उप (…) ॥
(…) सा गन्धर्वाप्सरस आगच्छत्
तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति ।
तस्याश् चित्ररथः सौर्यवर्चसो वत्स आसीत् पुष्करपर्णं पात्रम् ।
तां वसुरुचिः सौर्यवर्चसो ऽधोक् तां पुण्यं गन्धम् अधोक् ।
तं पुण्यं गन्धं गन्धर्वाप्सरसा उप (…) ॥
(…) सा पुण्यजनान् आगच्छत्
तां पुण्यजना उपाह्वयन्त तिरोध एहीति ।
तस्याः कुबेरो वैश्रवणो वत्स आसीद् आमपात्रं पात्रम् ।
तां रजतनाभिः काबेरको ऽधोक् तां तिरोधाम् अधोक् ।
तां तिरोधां पुण्यजना उप (…) ॥
सोद् अक्रामत् सा सर्पान् आगच्छत्
तां सर्पा उपाह्वयन्त विषवत्य् एहीति ।
तस्यास् तक्षको वैशालेयो वत्स आसीद् अलाबुपात्रं पात्रम् ।
तां धृतराष्ट्र ऐरावतो ऽधोक् तां विषम् अधोक् ।
तद् विषं सर्पा उप जीवन्त्य्
उपजीवनीयो भवति य एवं वेद ॥
तस्माद् यस्मा अलाबुनाभिषिञ्चेन्
मनसा त्वा प्रत्याहन्मीत्य् एनं प्रत्याहन्यात् ।
यत् प्रत्याहन्ति विषं प्रत्याहन्ति
न च प्रत्याहन्ति विषम् अनु प्रसिच्यते ।
विषम् अस्याप्रियं भ्रातृव्यं हन्ति य एवं वेद ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0