पैप्पलाद-संहिता · अध्याय 15.4
ऋणाद् ऋणम् इव सं नय
कृत्यां कृत्याकृतो गृहम् ।
चक्षुर्मन्त्रस्य दुर्हार्दः
पृष्टीर् अपि शृणाञ्जन ॥
यद् अस्मासु दुष्वप्न्यं
यद् गोषु यच् च नो गृहे ।
अमामगत्यस्त दुर्हार्दः
प्रिय प्रति मुञ्चताम् ॥
अपाम् ऊर्ज ओजसो वावृधानम्
अग्नेर् जातम् अधि जातवेदसः ।
चतुर्वीरं पर्वतीयं यद् आञ्जनं
दिशः प्रदिशः करद् इच् छिवास् ते ॥
चतुर्वीरं बध्यत आञ्जनं ते
सर्वा दिशो अभयास् ते भवन्तु ।
ध्रुवस् तिष्ठाधि सवितेव वार्य
इमा विशो अभि हरन्तु ते बलिम् ॥
आङ्क्ष्वैकं मणिम् एकं कृणुष्व
स्नाह्य् एकेन पिबैकम् एषाम् ।
चतुर्वीरं नैरृतेभ्यश् चतुर्भ्यो
ग्राह्या बन्धेभ्यः परि पात्व् अस्मान् ॥
अग्निर् माघ्न्येनावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥
इन्द्रो मेन्द्र्येणावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥
सोमो मा सोम्येनावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥
भगो मा भगेनावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥
मरुतो मा गणैर् अवन्तु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0