भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 15.5

15.5.1

आयुर्दा देव जरसं पृणानो
घृतप्रतीको घृतपृष्ठो अग्ने ।
घृतं पिबन्न् अमृतं चारु गव्यं
पितेव पुत्रं जरसे नयेमम् ॥

15.5.2

आयुर् अस्मै धेहि जातवेदः
प्रजां त्वष्टर् अधि नि धेह्य् ओनः ।
रायस्पोषं सवितर् आ सुवास्मै
शतं जीवाति शरदस् तवायम् ॥

15.5.3

इमम् अग्न आयुषे वर्चसे धाः
प्रियं रेतो वरुण मित्र राजन् ।
मातेवास्मा अदिते शर्म यच्छ
विश्वे देवा जरदष्टिर् जथासत् ॥

15.5.4

अग्निष् ट आयुः प्रतरं कृणोतु
सोमस् ते पुष्टिं प्रतरं दधातु ।
इन्द्रो मरुत्वान् अधि ते ब्रवीत्व्
आदित्यैस् ते अदितिः शर्म यच्छतु ॥

15.5.5

रेवतीस् त्वा व्यक्षणं
कृत्तिकाश् चकृतुस् त्वा ।
अपसस् त्वाम् अतन्वत
धियो ऽवयन्न् अवाग्नायीर् अपृञ्चन् ॥

15.5.6

सहस्रम् अन्ताँ अभितो ऽददन्ता-
-अशीतिर् मध्यम् अभयं वि नारीः ।
देवीर् देवाय परिधे सवित्रे
महत् तद् आसामघवन् महित्वम् ॥

15.5.7

इमम् अश्मानम् आ तिष्ठ-
-अश्मेव त्वं स्थिरो भव ।
प्र मृणीहि दुरस्यतः
सहस्व पृतणायतः ॥

15.5.8

येन देवं सवितारं
परि देवा अधारयन् ।
तेनेमं ब्रह्मणस्पते
परि राष्ट्राय धत्तन ॥

15.5.9

परीमम् इन्द्रम् आयुषे
महे क्षत्राय धत्तन ।
यथैनं जरसे नयाञ्
ज्योक् क्षत्रे अधि जागरत् ॥

15.5.10

परीमं सोमम् आयुषे
महे श्रोत्राय धत्तन ।
यथैनं जरसे नयां
ज्योक् श्रोत्रे अधि जागरत् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc