पैप्पलाद-संहिता · अध्याय 15.3
आयुषो ऽसि प्रतरणं
विप्रं भेषजम् उच्यसे ।
तद् आञ्जन त्वं शन्ताते
ऽसि मायोभवं कृतम् ॥
यो हरिमा जायान्यो
अङ्गभेदो विसल्पकः ।
सर्वं ते यक्ष्मम् अङ्गेभ्यो
बहिर् निर् हन्त्व् आञ्जनम् ॥
आञ्जनं पृथिव्यां जातं
भद्रं पुरुषजीवनम् ।
कृणोत्व् अत्प्रमायकं
रथजूतिम् अनागसम् ॥
प्राण प्राणं त्रायस्वासो
असवे मृड ।
निरृते निरृत्या नः
पाशेभ्यो मुञ्च ॥
सिन्धोर् गर्भो ऽसि
विद्युतां पुष्पम् ।
वातः प्राणः सूर्यश्
चक्षुर् दिवस् पयः ॥
देवाञ्जनं त्रैककुदं
परि मा पाहि विश्वतः ।
न त्वा तरन्त्य् ओषधयो
बाह्याः पर्वतीया उत ॥
वीदं मध्यम् अवासृजद्
रक्षोहामीवचातनः ।
अमीवाः सर्वाश् चातयन्
नाशयद् अभिभा इतः ॥
बह्व् इदं राजन् वरुण-
-अनृतम् आह पुरुषः ।
तस्मात् सहस्रवीर्य
मुञ्च नः पर्य् अंहसः ॥
यद् आपो अघ्न्या इति
वरुणेति यद् ऊचिम ।
तस्मात् सहस्रवीर्य
मुञ्च नः पर्य् अंहसः ॥
मित्रश् च त्वा वरुणश् च-
-अनु प्रेयतुर् आञ्जन ।
तौ त्वानुगत्य दूरं
भोगाय पुन रोहतु ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0