भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 14.8

14.8.1

इषिरा योषा युवतीर् दमूना
रात्री देवस्य सवितुर् भगस्य ।
अश्वक्षता सुहवा संभृतश्रीर्
आ पप्रौ द्यावापृथिवी महित्वा ॥

14.8.2

अव विश्वान्य् अरुहद् गभीरा-
-उद्वर्षिष्ठम् अरुहद् अश्रमिष्ठा ।
उशती रात्र्य् अनु सानु भद्राद्
वि तिष्ठते मित्र इव स्वधाभिः ॥

14.8.3

नर्ये वन्द्ये सुभगे सुजात
आ चागन् रात्रि सुमना इह स्याम् ।
अस्मांस् त्रायस्व नर्याणि जाता-
-अश्व्या यानि गव्यानि पुष्टा ॥

14.8.4

सिंहस्य रात्र्य् उशती पिशस्य
व्याघ्रस्य द्वीपिनो वर्च आ ददे ।
अश्वस्य ब्रध्नं पुरुषस्य मायं
पुरु रूपाणि कृणुषे विभाती ॥

14.8.5

शिवां रात्रिम् अह्नि सूर्यं च
हिमस्य माता सुहवा नो अस्तु ।
अस्य स्तोमस्य सुभगे नि बोध
येन त्वा वन्दे विश्वासु दिक्षु ॥

14.8.6

स्तोमस्य नो विभावरि
रात्रि राजेव जोषसै ।
असाम सर्ववीरा
भवाम सर्ववेदसो व्युच्छन्तीर् अनूषसः ॥

14.8.7

शम्या ह नाम दधिषे
मम दिप्सन्ति ये धना ।
रात्रीह तान् असद् अप-
-अथ स्तेनो न विद्यते
अथ रिपुर् न विद्यते ॥

14.8.8

भद्रासि रात्रि चमसो न पिष्टो
विश्वं गोरूपं युवतिर् बिभर्षि ।
चक्षुष्मती मे मृशती वपूंषि
प्रादित्यान् दिव्यान् रुक्माँ अमुक्थाः ॥

14.8.9

यो अद्य स्तेन आयत्य्
अघायुर् मर्त्यो रिपुः ।
रात्री तस्य प्रतीत्य
प्र ग्रीवा प्र शिरो हनत् ॥

14.8.10

प्र पादौ न यथायति
प्र हस्तौ न यथाशिषत् ।
यो मलिम्लर् उपायति
स संपिष्टो अपायति ।
अपायति स्व् अपायति
शुष्के स्थाणाव् अपायत ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc