पैप्पलाद-संहिता · अध्याय 14.7
सहस्रेण शतमाना यद् एषि
लोकां जिगेथ प्रथमा शतौदने ।
सर्ववेदसम् उत वाजपेयं
सर्वाँल् लोकां छतौदना समाप ॥
इन्द्रः पपात प्रथमः शतौदनां
सप्त ऋषिभ्यः सुमनस्यमानः ।
तयासुराणां बलम् ओज आ ददे
तया रुरोह विष्टपो देवलोकान् ॥
विश्वामित्रो ऽयं जमदग्निर् अत्रिर्
भरद्वाजो गोतमो ऽयं वसिष्ठः ।
इदं पक्वं कश्यपसप्तमाः
प्राश्नन्तु प्रथमाः शतौदनाम् ॥
ज्योतिष्मती प्रथमा शतौदना
त्रीणि ज्योतींषि कृणुते स्वर् यती ।
तां दातार उप जीवन्ति यत्र
तत्र देवैः सधमादं मदन्ति ॥
छन्दःपक्षा बृहती शतौदना
त्रीणि च्छन्दांसि ससृजे स्वर् यती ।
ऋतूणाम् अधिराजं संवत्सरं
पतिम् अस्या विन्दन् ॥
अतिक्रम्याग्निष्टोमम्
अतिरात्रं शतौदने ।
यज्ञांस् त्वं सर्वान् आप्त्वा
चित्यम् अग्निं व्य् अश्नुहि ॥
अश्वमेध्यम् अतिक्रम्य
द्वादशाहं शतौदने ।
त्रिरात्रं साह्नम् आप्त्वा
वाजपेयेन कल्पते ॥
ये सहस्रैर् ईजाना
अग्निहोत्रहुतश् च ये ।
यज्ञैर् ये सर्वैर् ईजानास्
तान् आप्नोति शतौदना ॥
शं ते परूंषि सुभगे दधामि
शं ते मांसान्य् अत्तथा भवन्ति ।
अस्थि यत् ते शमिता शशार
तत् ते त्वष्टा विहृतं निष् कृणोतु ॥
ये यज्ञेन जिता लोका
या नु च्छन्दांसि भेजिरे ।
सर्वांस् ताँल् लोकान् आप्नोति
यो ददाति शतौदनाम् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0