भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 14.9

14.9.1

अन्धं रात्रि तिष्ठधूमम्
अशीर्षाणम् अहिं कृणु ।
अक्षौ वृकस्य निर् जह्य्
आ स्तेनं द्रुपदे जहि ॥

14.9.2

ये ते रात्र्य् अनड्वाहस्
तीक्ष्णशृङ्गाः स्वाशवः ।
तेभिर् नो अद्य पारय-
-अति दुर्गाणि विश्वहा ॥

14.9.3

रात्रिं रात्रिम् अरिष्यन्तस्
तरेम तन्वा वयम् ।
गम्भीरम् अप्लवा इव
न तरेयुर् अरातयः ॥

14.9.4

यथा शाम्याकः प्रपतन्
प्रेदिवान् नानु विद्यते ।
एवा रात्रि प्र पातय
यो अस्माँ अभ्य् अघायति ॥

14.9.5

अप स्तेनं वासोमथं
गोअजम् उत तस्करम् ।
अथो यो अर्वतः शिरो
+ऽभिधाय निनीषति ॥

14.9.6

यद् अद्य रात्रि सुभगे
विभजन्त्य् अयोवसु ।
यद् एह्य् अस्मान् भ्राजय-
-अथेद् अन्यान् उपायसि ॥

14.9.7

उषसे नः परि देहि
सर्वान् रात्र्य् अनागसः ।
उषा नो अह्न आ भजाद्
अहस् तुभ्यं विभावरि ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc