पैप्पलाद-संहिता · अध्याय 12.22
निक्ष दर्भ सपत्नान् मे
निक्ष मे पृतनायतः ।
निक्ष मे सर्वान् दुर्हार्दो
निक्ष मे द्विषतो मणे ॥
तृन्धि दर्भ सपत्नान् मे
तृन्धि मे पृतनायतः ।
तृन्धि मे सर्वान् दुर्हार्दस्
तृन्धि मे द्विषतो मणे ॥
भङ्धि दर्भ सपत्नान् मे
भङ्धि मे पृतनायतः ।
भङ्धि मे सर्वान् दुर्हार्दो
भङ्धि मे द्विषतो मणे ॥
मृण दर्भ सपत्नान् मे
मृण मे पृतनायतः ।
मृण मे सर्वान् दुर्हार्दो
मृण मे द्विषतो मणे ॥
मन्थ दर्भ सपत्नान् मे
मन्थ मे पृतनायतः ।
मन्थ मे सर्वान् दुर्हार्दो
मन्थ मे द्विषतो मणे ॥
पिण्ढि दर्भ सपत्नान् मे
पिण्ढि मे पृतनायतः ।
पिण्ढि मे सर्वान् दुर्हार्दः
पिण्ढि मे द्विषतो मणे ॥
ओष दर्भ सपत्नान् मे
ओष मे पृतनायतः ।
ओष मे सर्वान् दुर्हार्द
ओष मे द्विषतो मणे ॥
दह दर्भ सपत्नान् मे
दह मे पृतनायतः ।
दह मे सर्वान् दुर्हार्दो
दह मे द्विषतो मणे ॥
जहि दर्भ सपत्नान् मे
जहि मे पृतनायतः ।
जहि मे सर्वान् दुर्हार्दो
जहि मे द्विषतो मणे ॥
यत् ते दर्भ जरामृत्यू
स ते मर्मसु वर्म ते ।
तेनेमं वर्मिणं कृत्वा
सपत्नान् जहि वीर्यैः ॥
शतं ते दर्भ वर्माणि
सहस्रं वीर्याणि ते ।
तम् अस्मै विश्वे त्वां देवा
जरसे भर्तवा अदुः ॥
त्वाम् आहुर् देववर्म
त्वां दर्भ ब्रह्मणस्पतिम् ।
त्वाम् इन्द्रस्याहुर् वर्म
त्वं राष्ट्राणि रक्षसि ॥
सपत्नक्षयणं दर्भं
द्विषतस् तपनं हृदः ।
मणिं क्षत्रस्य वर्धनं
तनूपानं कृणोमि ते ॥
यत् समुद्रो अभ्यक्रन्दत्
पर्जन्यो विद्युता सह ।
ततो हिरण्ययो बिन्दुस्
ततो दर्भो अजायत ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0