भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 12.21

12.21.1

इमं बध्नामि ते मणिं
दीर्घायुत्वाय तेजसे ।
दर्भं सपत्नजम्भनं
द्विषतस् तपनं हृदः ॥

12.21.2

द्विषतस् तापयन् हृदः
शत्रूणां तापयन् मनः ।
दुर्हार्दः सर्वांस् त्वं दर्भ
घर्म इवाभीत् सुतापयन् ॥

12.21.3

घर्म इवाभितपन् दर्भ
द्विषतो नितपन् मणे ।
हृदः सपत्नानां भिन्धि-
-इन्द्र इव विरुजं वलम् ॥

12.21.4

भिन्धि दर्भ सपत्नानां
हृदयं द्विषतां मणे ।
उद्यं त्वचम् इव भूम्याः
शिर एषां वि पातय ॥

12.21.5

भिन्धि दर्भ सपत्नान् मे
भिन्धि मे पृतनायतः ।
भिन्धि मे सर्वान् दुर्हार्दो
भिन्धि मे द्विषतो मणे ॥

12.21.6

छिन्धि दर्भ सपत्नान् मे
छिन्धि मे पृतनायतः ।
छिन्धि मे सर्वान् दुर्हार्दश्
छिन्धि मे द्विषतो मणे ॥

12.21.7

वृश्च दर्भ सपत्नान् मे
वृश्च मे पृतनायतः ।
वृश्च मे सर्वान् दुर्हार्दो
वृश्च मे (द्विषतो मणे) ॥

12.21.8

कृन्त दर्भ सपत्नान् मे
कृन्त मे पृतनायतः ।
कृन्त मे सर्वान् दुर्हार्दः
कृन्त मे द्विषतो मणे ॥

12.21.9

पिंश दर्भ सपत्नान् मे
पिंश मे पृतनायतः ।
पिंश मे सर्वान् दुर्हार्दः
पिंश मे द्विषतो मणे ॥

12.21.10

विध्य दर्भ सपत्नान् मे
विध्य मे पृतनायतः ।
विध्य मे सर्वान् दुर्हार्दो
विध्य मे द्विषतो मणे ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc