पैप्पलाद-संहिता · अध्याय 13.1
अन्तर्हितं मे बृहद् अन्तरिक्षम्
अन्तर्हिताः पर्वता अग्नयो मे ।
मैषां राध्य् अभिचार एष
प्रत्यग् एनान् प्रतिसरेण हन्मि ॥
तपःश्रमाव् अन्तरौ मत् परीतं
ब्रह्मयज्ञम् अन्तरं मद् दधामि ।
(…) ॥
अग्नीषोमाव् अन्तरौ मद् भवाथो
दिवं वर्म पृथिवीं च कृण्वे ।
(…) ॥
अन्तर्हितं मे साम प्रस्तुतम्
अन्तर्हितः परमेष्ठी प्रजापतिः ।
(…) ॥
अन्तर्हिता सर्पराज्ञी वीराण् मे
अन्तर्हितः पुरुषो मेध्यो मे ।
(…) ॥
अन्तर्हिता मे षड् उर्वीः सध्रीचीर्
अन्तर्हिताः साध्या आप्त्या मे ।
(…) ॥
(अन्तर्हिता) म ऋषयः प्रचेतसो
अन्तर्हितः सूर्यो मातरिश्वा ।
(…) ॥
अन्तर्हिता मे नद्यः स्यन्दमाना
अन्तर्हिता ओषधीः पुष्पिणीर् मे
(…) ॥
अन्तर्हिताः पशवः कक्ष्या मे
अन्तर्हितं वयो यत् पतत्रि ।
(…) ॥
अन्तर्हिता म इषवो ब्राह्मणानाम्
अन्तर्हिता वनस्पतयः समूलाः ।
(…) ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0