भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.8

4.8.1

राज्ञोराष्ट्रस्य मर्त्यानां यदभ्युदयसाधनम् ।
यच्चोत्पात प्रशमनं व्याधीनं चापनोदनम्

4.8.2

यदभिप्रेतमखिलं साधयत्य विलम्बितम् ।
कुर्वतां भगवन् तन्मे तदर्चन मनुत्तमम्

4.8.3

कथ्यतां मयि चेदस्ति दया परम पूरुष ।
रहस्यमपि तन्मह्य माख्येयं जगतो हितम्

4.8.4

महाभिषेको नामाग्र्यं स्नपनं कमलासन ।
विषुवे सङ्क्रमे चैव ग्रहणे चायनद्वये

4.8.5

द्वादश्यां श्रवणे चैव तथा कर्तु स्त्रिजन्मसु ।
दिनत्रये व्यतीपाते रोहिण्यां च तिथित्रये

4.8.6

दर्शेच पौर्णमास्यां च पुनर्वस्वोर्विशेषतः ।
पञ्चम्यां शुभनक्षत्र तिथिवा रेषु चाब्जज

4.8.7

प्रयुज्यमानं सर्वार्थ साधनं सर्वशान्तिदम् ।
कर्तव्यं तत्त्रिधा ब्रह्मन्नुत्तमाधममध्यमम्

4.8.8

जात्युत्कर्षं धनोत्कर्ष मथवावेक्ष्यतत्ववित् ।
प्रयुञ्ञीतूत्तमं स्नान मितरेष्वितरद्भवेत्

4.8.9

पूर्वेद्यु रङ्कुरन्यासो बध्वा कौतुकमङ्गलम् ।
अधिवासश्च बिम्बस्य सद्यो वा सकलं भवेत्

4.8.10

स्नपनं प्रतिमायास्स्यादधिवासश्च तुर्मुख ।
तीर्थप्रतिकृतौ वापि पूर्वालाभेऽधिवासयेत्

4.8.11

यद्वोत्स वार्थप्रतिमां बलिबिम्ब मथापिवा ।
बिम्बं कर्मार्थमथवा
असत्त्सकुशकूर्चकम्

4.8.12

लेपमृण्मयभित्तिस्थ पटस्थेषु च दर्पणम् ।
कूर्चं मूर्त्यन्तराभावेक्लुप्तिरेषा सनातनी

4.8.13

प्रासादस्या ग्रतःकुर्यात्ततस्स्नपन मण्डपम् ।
दशहस्त प्रविस्तारं द्विगुणेनायतं शुभम्

4.8.14

चतुर्द्वारं चतुर्दिक्षु चतुस्तोरण भूषितम् ।
सर्वावरण भूष्वेव दिक्षु सर्वासु वा भवेत्

4.8.15

क्लुप्ते वा मण्डपे कुर्या दवकाशानु सारतः ।
विभज्य तत्त्रिधा कुर्या त्तृतीयेऽंशेऽथ पश्चिमे

4.8.16

अवलम्ब्य ब्रह्मसूत्रं चतुरश्रं समन्ततः ।
चतुर्हस्तां स्नानवेदीं हस्तोत्सेधां शिलादिभिः

4.8.17

उपानहादिसंयुक्तां दर्शनीयां सलक्षणाम् ।
उपरिष्टाच्च वलयं वृत्तं वा चतुरश्रकम्

4.8.18

प्रादेशेन प्रविस्तीर्णं ततमष्टाङ्गुलेन वा ।
षडङ्गुलेन वा ब्रह्मन् चतुरङ्गुल मुन्नतम्

4.8.19

वेदिकोपरि तद्धारि कुल्यामाश्वभ्र मेदिनीम् ।
मृण्मयादिषु बिम्बेषु बहिर्वेदी प्रकल्पनम्

4.8.20

एकबेरे तु न बहिस्स्ना नवेदी प्रकल्पनम् ।
दुकूलक्षौमवसनै र्मण्डपं सर्वतोदिशम्

4.8.21

शोभयेत्पूर्ण कुम्भाद्यैस्तो रणैश्च विभूषयेत् ।
वेष्टयेद्दर्भ मालाभि र्मुक्तादामानि लम्बयेत्

4.8.22

आस्थानमण्डपे स्थाने तथाचैवार्ध मण्डपे ।
तोरणादि न कर्तव्यं गृहर्चायां तथैव च

4.8.23

नित्ये च स्नपने नापि कौतुकं नाङ्कुरार्पणम् ।
निशाचूर्णैर्नस्नपनमिष्यते
मण्डप स्थलम्

4.8.24

गोमयाम्बोभि रालिप्य सुधाचूर्णैश्च शोभयेत् ।
दीपाना कोपयेत्तत्रन्यस्येद ङ्कुरपालिकाः

4.8.25

कोणे रौद्रे मण्डपस्य जलद्रोण्यादिभाजनम् ।
कल्पयेद्गालि तस्वादु सुगन्धि जलपूरितम्

4.8.26

पवमानादि भिस्सूक्तैर्मन्त्रितं सापिधानकम् ।
वेदिदक्षिणतो भूमा वुपस्नानाम्बु कल्पनम्

4.8.27

अर्घ्यादि दीपपर्यन्तं पूजाद्रव्याणि कल्पयेत् ।
चन्दनार्द्राणि सूत्राणि चतुर्दश निपातयेत्

4.8.28

प्रागायतानि तावन्ति सूत्राण्येव चतुर्मुख ।
उदगायतानि सन्त्येवं कोष्ठान्ये कोनसप्ततिः

4.8.29

शतं च तेषामा याम विस्तारं षोडशाङ्गुलम् ।
धान्यपीठा नुरूपं वा कलशानां चतुर्मुख

4.8.30

दिक्ष्वष्टानु तथा मध्ये प्रत्येकं नव भूमिषु ।
नव कोष्ठानि कुम्भानां पदानि कमलासन

4.8.31

एकमेकाधिकाशीति कोष्ठानि कलशास्पदम् ।
अन्यान्यष्टोत्तराशीती रथ्यां सम्मृज्य कल्पयेत्

4.8.32

व्रीहिभिःपीठिकां कुर्यात्कोष्ठभूषु पृथक्पृथक् ।
आढकेन तदर्धेन तदर्धार्धेन वा भवेत्

4.8.33

पीठिका धान्यतुर्यांशास्तण्डुलाः पीठिकोपरि ।
तत्तुर्यां शास्तिलास्तेषां भवेयुरुपरि स्थिताः

4.8.34

द्वौ द्वौ कु शाग्रौ प्रत्यस्येत् पीठिकासुचतुर्मुख ।
सौवर्णा राजतास्ताम्रा मृण्मया वा यथावसु

4.8.35

कलशा लक्षणोपेताः पक्वबिम्बफलोपमाः ।
अच्छिद्रा स्स्वनव नश्च कालमण्डल वर्जिताः

4.8.36

अभिन्ना मृण्मयाःकुम्भाःपाषाण स्फोटवर्जिताः ।
द्रव्यकुम्भा द्रोणपूर्णास्तदर्धेनाथवाऽथवा

4.8.37

पादेन कलशाश्शिष्टाः पूर्यावार्याढकेन तु ।
प्रक्षाल्य विष्णुगायत्र्या द्रव्यकुम्भांस्तथेतरान्

4.8.38

स्थापयित्वा करतले सव्येऽसव्येन पाणिना ।
इन्द्रमरुद्वमन्त्रेण तन्तुना परिवेष्टयेत्

4.8.39

तन्तूनां विष्टितानां स्या दन्तरालं यवा न्तरम् ।
अर्धाङ्गुलान्तरालं स्या द्यद्वैकाङ्गुल मन्तरम्

4.8.40

कलशास्पदमेदन्याःपश्चिमे धरणीतले ।
धान्यपीठं विधायास्मिन् कलशानधिवासयेत्

4.8.41

धान्यपीठे ततस्तस्मिन् कुशाना स्तीर्य विश्वतः ।
प्रागग्रानु दगग्रांश्च तेषु कुम्भानधोमुखान्

4.8.42

ओमित्युच्चार्य विन्यस्येन्नव भूषु यथोत्तरम् ।
न्यस्ताना मपि कुम्भाना मुपरिष्टाद्यथापुरम्

4.8.43

दर्भांस्तृणी यादाचार्योमन्त्रेण परमेष्ठिना ।
प्रोक्षयेदर्घ्यतोयेन प्राङ्मुखः पुरुषात्मना

4.8.44

विश्वमन्त्रेण विरिरे दक्षता न धिपासिते ।
उत्तानि तेषु कुम्भेषु निवृत्या ह्वोनविद्यया

4.8.45

सर्पिषा ष्टोत्तरशतं विष्णुगाय त्रियाकृते ।
होमे हुताज्य शेषेण स्नपनद्रव्यसेचनम्

4.8.46

घृतादिस्नपनद्रव्यै र्वस्त्रपूतैः परिष्कृतैः ।
पूरयेत्क लशांस्तत्तन्मन्त्रेःपूर्णान् समुद्धरेत्

4.8.47

सर्वमन्त्रेण विश्वात्मन् कुम्बान् सप्तददश्धोतान् ।
द्रव्यकुम्भान् धान्यपीठे स्थापये द्विष्णुपूर्वया

4.8.48

गायत्र्या च चतुष्षष्टि द्वादशाक्षरविद्यया ।
उदकुम्भान् क्रमेणान्यान् प्रङ्मुखो वाप्युदङ्मुखः

4.8.49

नवके मध्यमे स्थाने स्थावनी यास्तु मध्यमे ।
घृतकुम्भं स्थापयित्वा पदेपौत्रामणे ततः

4.8.50

उष्णोदकुम्भं विन्यस्ये द्रत्न कुम्भ मनन्तरम् ।
फलकुम्भं यमपदे लोहकुम्भं तु नैरृते

4.8.51

प्राचेतसे मार्जनाम्भः कुम्भं गन्धाम्बुमारुते ।
अक्षताम्बु च कौ बेरे पदे शार्वे यपोदकम्

4.8.52

प्राच्यां तु कुम्भनवके मध्ये पाद्य घटं स्यसेत् ।
अर्घ्य कुम्भं पदे याम्ये पदे प्राचेतसे पुनः

4.8.53

उपस्पर्शन पानीयं पञ्चगव्य मुदक्पदे ।
अग्नेय कुम्भनवके मध्ये दधि घटं न्यसेत्

4.8.54

नैरृते मध्यतःक्षीरं वायवीये घटं मधोः ।
कषाय कुम्भमैशाने सर्वत्र परितो घटान्

4.8.55

शुद्धोदकांश्चतुष्षष्टि मष्ठावष्टौ निवेशयेत् ।
सप्तभिः पञ्छभिर्वापि यद्वा दर्भौस्त्रिभिःकृतान्

4.8.56

कूर्चान् कुम्भेष्वपागग्रान् निक्षिपेल्ल क्षणान्वितान् ।
महा कुम्भे कुशैःकूर्चं चतुर्विंशतिभिः कृतम्

4.8.57

चक्रमन्त्रेण तान् कुम्भान् शरावैरपिधान येत् ।
वासोभि र्द्रव्यकलशा न्युपासुपास इत्यृचा

4.8.58

कण्ठेषु वेष्टयेदन्यान् वासोभि स्छादयेन्नवैः ।
अधीयानैस्त्रयीविद्यां विद्वद्भि र्ब्राह्मणैस्सह

4.8.59

ऋत्विग्भि स्सहदेवस्य यायान्मन्त्र विदन्तिकम् ।
ऋत्विजो देवमुत्थाप्य गुरुश्चोत्तिष्ठ विद्यया

4.8.60

साम्नारथन्त राख्येन ब्रह्मयाने गुरुस्स्वयम् ।
स्थापयेदृत्विजैस्सार्धं ब्राह्मणै र्वेदपारगैः

4.8.61

शिभिकायां स्थापयित्वा मृद्वास्तरण कल्पिते ।
निवेशमेयुः प्रतिमां स्नान वेदितले शुचौ

4.8.62

पुण्याहं वा चयेत्पश्चात्पञ्चकाल परायणैः ।
अयुग्मैस्तोषयेद्वित्तैस्तान्विभूत्यनुसारतः

4.8.63

द्वारतोरण कुम्भादीन् समभ्यर्च्य यथापुरम् ।
द्वारेष्व ध्ययनं नृत्तं वाद्यं गेयं प्रवर्तयेत्

4.8.64

सर्पिषा जुहुयादगनौ यावत्कलशसङ्ख्यया ।
मूलमन्त्रेण जुहुया च्चरुं पुर्वेक्तसझ्ख्यया

4.8.65

नृ सूक्तेन समभ्यर्च्य कलशान् स्थापितान् गुरुः ।
अर्घ्यादि भिस्तथा देवं
घृतारोपण माचरेत्

4.8.66

दन्तकाष्ठं गन्धतैलं तथामलकवारि च ।
वस्त्रं दत्वाचोत्तरीय मर्घ्याद्यै रर्चयेत्पुनः

4.8.67

दीपान्तमर्चनं कृत्वा पाद्यकुम्भ मुखै र्घटैः ।
घृतकुम्भान सानैश्च स्नापये द्दे शिकोत्तमः

4.8.68

छिन्नैकतन्तु मुद्धृत्य पाद्यकुम्भं समर्चितम् ।
पुष्पैर्दद्यात्करतले देशिकेन्द्रस्य मूर्तिपः

4.8.69

कूर्चमादाय कुम्भस्थं स्वहस्ते देशिकोत्तमः ।
अवागग्रेण कूर्चन तीर्धै र्ब्रह्मादि भिस्ततः

4.8.70

शुभैर्वैष्णव गायत्र्यास्नापयेत्पाद्य वारिभिः ।
तद्विष्णुरितिमन्त्रेण स्नापयेदर्घ्यपारिभिः

4.8.71

न तेविष्णु रितिश्रुत्याकुम्भेनाचमनाम्बुना ।
विष्णोः क्रमेति मन्त्रेण पञ्चगव्याभिषेचनम्

4.8.72

दधिक्रा विण्णयजुषा दध्ना देवभिषेचनम् ।
साम्ना पयो पृतेनैव पयसा मधुना पुनः

4.8.73

मधुवातेति मन्त्रेण स्नपनं मधुविद्वषः ।
ओषध्य इतिमन्त्रेण कषायाम्भोभिषेचनम्

4.8.74

तद्विष्णो रिति मन्त्रेण स्नानंमुष्णाम्बुधारया ।
फलिनीत्यनुवाकेन स्नपनं फलवारिभिः

4.8.75

शं नोदेवीरिति स्नानं मन्त्रिदैर्मार्जनाम्बुभिः ।
सावित्र्याक्षतपाथोभिस्त्रातार मिति सामभिः

4.8.76

रत्नोदकैर्लोहतोयैर्महाव्याहृतिविद्यया ।
गन्धद्वारेति मन्त्रेण स्नपनं गन्धवारिणा

4.8.77

शतधारेति मन्त्रेण स्नानं स्याद्यववारिभिः ।
घृत स्नातेति मन्त्रेण घृतेन स्नपनं हरेः

4.8.78

अथवा पौरुषै स्सूक्तैःक्रमात्पा द्यादिपारिभिः ।
ऋग्भिष्षोड शभिस्स्नान मृचेदं विष्णुरित्यपि

4.8.79

अष्टाक्षरेण वा यद्वा द्वादशाक्षरविद्यया ।
विष्णुगायत्रिया वापि स्नानं यद्वा चतुर्मुख

4.8.80

स्वमूर्ति विद्यया वापि स्नपनं मधुविद्विषः ।
क्षालनं च घृत स्नाने सामान्यै कुष्णवारिभिः

4.8.81

पाद्यादि द्रव्य कुम्भाना मुद्धारेष्पन्तरा न्तरा ।
शुद्धोद कुम्भैरन्यैश्च स्नानमष्टभि रष्टभिः

4.8.82

अष्टाक्षरेण मन्त्रेण भवेद्देवस्य पद्मज ।
उपस्नानं तथा प्लोतं वस्त्रं चैपूत्तरीयकम्

4.8.83

अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पं च धूपकम् ।
दीपं चैतानि देयानि प्रतिद्रव्य घटाप्लवम्

4.8.84

उद्धरेद्द्रन्व कलशान् विष्णुगायत्रिविद्यया ।
शुद्धोदकांश्च कलशान् द्वादशाक्षर विद्यया

4.8.85

हरिद्रा तण्डुलै स्स्वर्ण चूर्णैः कुम्भान् ससूत्रकान् ।
पूरयेन्नव निर्दोषान् सप्तवा पञ्च वाथवा

4.8.86

त्रीण्येकं कुम्भमथवा ते च स्थाप्याः परिव्यये ।
सापिधानेषु कुम्भेषु सकूर्चेषु समर्चयेत्

4.8.87

श्रियं कुम्भान् समुद्धृत्य श्रीसू क्तेनाभिषेचयेत् ।
पूर्णाहुतिर्यथा होमेचूर्णैस्स्नासं तथाभवेत्

4.8.88

पासुदेवतनुभ्रष्टान् चूर्णान् परमपावनान् ।
येवहन्ति शिरोभिस्स्वैर्नरा निर्धूतकल्मषाः

4.8.89

तेयान्ति वैष्णवं स्थानं पुनरावृत्तिवर्जितम् ।
अभिषेक जलं विष्णो र्ये पिबन्ति वहन्ति वा

4.8.90

ते सर्वितीर्थाभिशेक फलमश्नुवते महत् ।
कृत्वा प्रदक्षिणं नत्वास्तुत्वा स्तोत्रेण देशिकः

4.8.91

तत स्सहस्र धाराभि स्स्नापयित्वा जनर्दनम् ।
नीराजनान्तमिष्ट्वैवं
ततोऽलङ्कार विष्टरे

4.8.92

यजेत मात्रादानान्तं मात्रासङ्ख्या परिव्ययः ।
खारिद्रोणं तदर्धं वा देयास्स्युर्देशिकाय ते

4.8.93

चतुर्विधानि चान्नानि भोजयेद्भो जनासने ।
होमान्त मर्चयेद्देवं देशिकेन्द्रो यथाविधि

4.8.94

स्नपनान्ते ततो देवं सुखमासीन मासने ।
याचेत याजमानोपि सर्वमिष्टं जनार्दनम्

4.8.95

दक्षिणां देशिकेन्द्राय सुवर्णशतनिष्ककाम् ।
तदर्धं पादमथवा दद्याद्वि त्तानु सारतः

4.8.96

कुर्यादा चार्यसात्सर्वं द्रव्यं पूजाङ्ग माहृतम् ।
वस्त्रादिकं तथान्येषां ऋद्विजां तुष्टिमावहेत्

4.8.97

नृत्तगेयरतानां च तथा स्वाध्यायशालिनाम् ।
ब्राह्मणानां यथा तुष्टि स्तथा वित्तं विसर्जयेत्

4.8.98

अथमोत्तममेतत्तुस्नपनं परिरीर्तितम् ।
कोणेषु कुम्भैर्द्वात्त्रिंशत्केवलोदकपूरितैः

4.8.99

तैर्विहीनं हरेस्स्नानं ज्ञेयन्त्वधममध्यमम् ।
शुद्धोद कुम्भेर्यद्धीनं सर्वेस्तदधमाधमम्

4.8.100

पाद्यकुम्भे तथा चार्घ्ये तथोपस्पर्शनाम्भसि ।
कुम्भे कषायफलयोः कुम्भे चाक्षतगन्धयोः

4.8.101

एकैकस्मिन् घटेष्वेषु द्रव्याणामष्टकं क्षिपेत् ।
पाद्यादिषु क्रमाद्द्रव्यं तत्प्रमाणं च कथ्यते

4.8.102

तुलसी च तथा पद्मं दूर्व च स्यात्तथाऽक्षतम् ।
श्यामूकं विष्णु पर्णीं च भिल्वपत्राणि चन्दनम्

4.8.103

द्रव्याणि चन्दनं मुक्त्वा मुष्टिमात्राणि तत्फलम् ।
सिद्धार्थं चाक्षतं चैव कुशाग्रं च तथा फलम्

4.8.104

यवास्तिलाश्चन्दनं च प्रसवाश्च सुगन्धयः ।
फलं सुपक्व मेतेषु चन्दनं च त्रिनिष्ककम्

4.8.105

शिष्टानि मुष्टिमात्राणि तक्कोलं चम्पकस्य च ।
मुकुलं घनसारं च जातिरेलाफलानि च

4.8.106

लवङ्गत्वक्चन्दनं च पुष्पाणि सुरभीणि च ।
पलार्धपरिमाणानि प्रत्येकं कमलासन

4.8.107

शमीपलाशखदिरबिल्वाश्वत्थ विकङ्कतम् ।
औदुम्बरं चन्यग्रोधश्शम्यादीनां त्वचः स्मृताः

4.8.108

प्रत्येकं पलमानास्स्युः कदली भेजपूरकम् ।
अम्रमामलकं भिल्वं नालिकेर फलानि च

4.8.109

पनसं मातुलङ्गं च भिन्नान्येतानि निक्षिपेत् ।
नीवारवेणुशालीनां प्रियङ्गुयुवयोरपि

4.8.110

कङ्गुषाष्टिकयोश्चैव गोधूमस्य च तण्डुलाः ।
मुष्टिप्रमाणा विज्ञेयाः कुङ्कुमं कोष्ठचन्दने

4.8.111

अगरूशीरमालानि ह्रिबेरं गिरिसम्भवम् ।
मांसी मुरं च प्रत्येकं पलमात्राणि पद्मज

4.8.112

माणिक्यं पद्मरागं च नीलं वज्रं च पुष्यकम् ।
प्रवालं मौक्तकं चैव तथा मरतकं क्षिपेत्

4.8.113

वैडूर्यं नवरत्नानि तानि रत्न घटो दके ।
सुवर्णं रजतं ताम्रं सीसकं त्रपुकं तथा

4.8.114

कांस्यमायससारं च सप्तलोहघटो दके ।
प्रत्येकं निष्टमानानि रजनी सूर्यवर्तिनी

4.8.115

सहदेवी शिरीषं च सदा भद्रं कुशाग्रकम् ।
मार्जनानि षडेतानि मुष्टिमात्राणि निक्षिपेत्

4.8.116

यवा वेणुयवाश्चैव व्रीहयश्चेति तत्त्रिकम् ।
यपूदके निधातव्यं प्रत्येकं कुडुपं भवेत्

4.8.117

पञ्चगव्यानि ग्रह्णीयास्मृत्पात्रे नूतने शुभे ।
गोमूत्रं गोमयं क्षीरं दधि सर्पिश्च पञ्चमम्

4.8.118

कपिलाया जराया ? वा पञ्चिगव्यं प्रशस्यते ।
तयोरभावे त्वन्यासां गवां गव्यं विधीयते

4.8.119

नार्ताया न च गर्भिण्या न वृद्धायाः कदा चन ।
नावत्साया उपादेयं धेनोर्मूत्रं शकृद्ध्वयम्

4.8.120

भूमिष्ठं गोमयं ग्राह्यं सोष्णं क्रिम्याद्यदूषितम् ।
निष्पीड्य सम्यग्गृह्णी याद्गोमयस्य रसं पुनः

4.8.121

सद्यस्तप्तं घृतं शुद्ध महोरात्रोषितं दधि ।
क्षीरं ग्राह्यमतप्तं च दशाह्ज्जन्मनः परम्

4.8.122

गो मूत्रं विष्णुगायत्र्या गन्धद्वारेति गोमयम् ।
आप्याय स्वेति च क्षीरं दधिक्रा व्णेति वै दधि

4.8.123

घृतं शुक्रमसीत्येवं गव्यानि सह योजयेत् ।
विष्णुगायत्रिया यद्वा पञ्चोपनिषदै स्तुवा

4.8.124

परमेष्ठी शकृन्मन्त्रो गोमूत्रस्यतु पूरुषः ।
विश्वमन्त्रो भवेद्दध्नो निवृत्तिस्सर्पिषो भवेत्

4.8.125

पयसस्सर्वमन्त्रस्स्यात्सर्वेषा मष्टवर्णकम् ।
दध्नि द्विगुण माघारा त्पीयूषं त्रिगुणं ततः

4.8.126

षड्गुणं मूत्रमेतस्माच्छकृद्वारि चतुर्गुणम् ।
स्नवने कधितं मानम्
प्रोक्षणे पञ्चकं समम्

4.8.127

गोमयेन समं मात्रं दधिस्याद्द्विगुणं ततः ।
ततश्चतुगुर्णणं सर्पिस्सर्पिषोऽष्ट गुणं पयः

4.8.128

प्रशने पञ्चगव्यानां प्रमाण मिदमीरितम् ।
द्रोणमानं पञ्चगव्यं घृतमानं च ता दृशम्

4.8.129

तादृगेव दधि क्षीरं तावदेव च माक्षिकम् ।
अर्धं पास्यादाढकं वान्यूनं चेदासुरं भवेत्

4.8.130

गृहोर्चास्नपने न्यूनं प्रस्थेनैव प्रकल्पयेत् ।
पाद्ये द्रव्यान्तरालाभे दूर्वैवा र्घ्यो च सर्षपाः

4.8.131

शस्तमाचमनीये तु तक्कोलं मार्जनाम्भसि ।
सहदेवी गन्धतोये चन्दनक्षोद इष्यते

4.8.132

कषायतोये चाश्वत्थ श्शीतमुष्णोदरे सति ।
रत्नोदरे वज्रमेकं कदल्येका फलाम्भसि

4.8.133

सुवर्णं लोहपानीये शालि दण्डुलमक्षते ।
यपूदकघटेव्रीहिश्शस्यते कमलासन

4.8.134

अलब्धे दधिनि क्षीरं क्षीरा भावे तु तद्दधि ।
मधुन्यलब्धे सर्पींषि तदलाभे भवेन्मधु

4.8.135

अलाभे पञ्चगव्यानां घृतमेवैकमिष्यते ।
पञ्चगव्येषु यस्यस्यादलाभ स्तत्पदे घृतम्

4.8.136

स्नपनं मध्यमं वक्ष्ये यथा तदव धारय ।
मध्ये पूर्वोक्तकलश स्थापने विहिते सति

4.8.137

द्वौ द्वौ बहिस्ततः पङ्क्तीस्सम्मृज्य कमलासन ।
परितो वीदिकाः कुर्या द्बहिस्ता भ्यो घटास्पदम्

4.8.138

पञ्चाशत मथैकोन कलशान् दिक्षु निक्षिपेत् ।
पूर्वादिषु प्रतिदिशं च तसृष्वम्बुजासन

4.8.139

चत्वारो द्रव्यकलशास्तेषु शुद्धोदकाः परे ।
गुळोदकं चेक्षुरसं नालिकेरजलं तथा

4.8.140

शान्तिवारि च पूर्वादौ क्रमान्न्यस्येच्चतुष्टयम् ।
गुळाभावे चेक्षुरसस्तस्त्याभावे गुळोदकम्

4.8.141

गुळमानं पलाशीति रर्धमर्धार्ध मेव वा ।
नालिकेर जलाभावे तत्थ्साने क्षीरमिष्यते

4.8.142

तुलसीवेणुनीवरयवाश्च श्वेतसर्षपाः ।
तिलाश्च षट् शान्तिकुम्भे द्रव्याणि तुलसी भवेत्

4.8.143

मुष्टिमात्रं द्रव्यमन्यत्पृथ क्कुडुबसम्मितम् ।
तुलसीदलमन्येषामलाभे ग्राह्यमिष्यते

4.8.144

गुळोदकादि भिर्द्रव्यैस्स्नपने विहिते सति ।
पाद्यादि द्रव्यकलशै र्घृतान्तै स्स्नापयेद्धरिम्

4.8.145

मधुवातेति मन्त्रेण स्नपनं गुळवारिणा ।
मधुनक्तमितिस्नान मैक्षवेन रसेन च

4.8.146

मधुमान्न इतिस्नानं नालिकेराम्भसा पुनः ।
वेदाहमितिमन्त्रेण शान्तिद्रव्य घटाम्बुभिः

4.8.147

जितं त इति शुद्धेन वारिणा स्नपनं हरेः ।
मध्यमोत्तममुद्दिष्टं मध्यमे मध्यमं पुनः

4.8.148

चतुर्भिर्द्रव्यकलशै स्स्नानं शुद्धोदकैर्विना ।
बहिष्ठैर्देवदेवस्य मध्यमाधम आप्लवः

4.8.149

सर्वैरेव द्रव्यकुम्भैस्सर्वैश्शुद्धोदकैर्विना ।
उत्तमं स्नपनं वक्ष्ये यथावदव धारय

4.8.150

विदिक्षु दिक्षुवत्कुम्भास्थ्साप्याः पूर्वोक्तसङ्ख्यया ।
तेषु च द्रव्यकलशाश्चत्वारोऽन्ये चतुर्मुख

4.8.151

शुद्धोदका विदिश्यग्ने र्विन्यस्येन्मङ्गलोदकम् ।
इन्द्रवल्यङ्कु राश्वत्थपल्लवाश्च कुशेशयम्

4.8.152

एकपत्राम्भुजं कुष्ठं कुङ्कुमं रोहिण द्रुमम् ।
पुण्यास्सु मनसश्चाष्टौ यूधिका मल्लिकापि च

4.8.153

त्रीण्युत्पलानि जातिश्च चम्पकं केतकी तथा ।
द्रव्याणि मङ्गलानीति प्रस्यीन्मङ्गलपाथसि

4.8.154

अङ्कुरद्वयमेकैर् मेकपत्रं च पङ्कजम् ।
मुष्टिमात्रं सुमनसश्छैकैकं चन्दनादिकम्

4.8.155

पलं पृथक्पृथक्कुम्भे नैरृते सकलौषधीः ।
मांसी कुष्ठं हरिद्रे द्वेमुरा शैलेयचम्बके

4.8.156

मुस्ता वचा च कर्पूरं प्रत्येकं पलसम्मितम् ।
पिष्ट्वा सर्वैषदिघटे निक्षिपेत्कमलासन

4.8.157

वायवीये सर्वगन्ध द्रव्याणां क्षेपणं घटे ।
कर्पूरं कुङ्कुमं कुष्ठं मांसी मलयजं मुरम्

4.8.158

प्रियङ्गु केसरं मुस्ता तमालं नागकेसरम् ।
मालद्वयं चकच्चोरं सुरपर्णिकरेसरम्

4.8.159

उशीरं तगरं लोध्रं तथैव हरिचन्दनम् ।
अगुरुद्वयं सितं कुष्ठं कालेयं ग्रन्थिपल्लवम्

4.8.160

मुकुलं चम्पकस्येति प्रत्येकं पलसम्मितम् ।
चूर्णीकृतं समस्तं च न्य स्येद्गन्धोदके घटे

4.8.161

मालौषधिघटे शार्वे मालौषधिसमर्पणम् ।
व्याघ्रीसिंही बला चाग्निश्शरपुङ्खा शतावरी

4.8.162

बिल्वमूलं वचा शुण्ठी कोरण्डं शतमूलिका ।
प्रत्येकं पलमानान्स्युः पिष्ट्वा कुम्भे विनिक्षिपेत्

4.8.163

मङ्गलोदकवस्तूनामलाभे चन्दनं वरम् ।
सर्वौषधीनामेतासामलाभे कुष्ठमिष्यते

4.8.164

अलाभे सर्वगन्धानां शस्यते चन्दनं वरम् ।
मालौषधीनां सर्वासामलाभे शस्यते बला

4.8.165

अधिदैवं समभ्यर्च्य उद्धृत्य स्नापयेत्क्रमात् ।
पूर्वादिदिक्षु प्रथममाग्नेयादि ततःपरम्

4.8.166

विष्णोर्नुकमिति प्रोच्यस्नापयेन्मङ्गलाम्भसा ।
ओषध्य इति मन्त्रेण सर्वैषधिजलेन च

4.8.167

नारायणानुवाकेन सर्वगन्धाम्बुभिर्हरिम् ।
या ओषधीतिमन्त्रेण मालौषधिजलै स्ततः

4.8.168

अस्त्रशुद्धोदकैस्स्नायाद्द्विद्ययाष्टाक्षरात्मना ।
पाद्यपूर्वंघृतान्तंच स्नानं देवे यथापुरम्

4.8.169

उत्तमोत्तममेतत्तुस्नपनं परिकीर्तितम् ।
अर्धशुद्धोदकैर्हीनं भवेदुत्तममध्यमम्

4.8.170

सर्वशुद्धोदकैर्हीन मुत्तमाधम मिष्यते ।
विंशतिः पञ्च च ब्रह्मन् सङ्क्ष्केपे कलशा मताः

4.8.171

चतुश्शतं च विस्तारे सप्ततिश्च त्रि रुत्तरम् ।
द्रव्याणा मथ सर्वेषां कथयाम्यधिदेवताः

4.8.172

घृतस्य परमात्मा च वासुदेवोऽधिदेवता ।
उष्णोदकुम्भे पुरुष स्सत्यस्स्यात्तु फलोदके

4.8.173

अच्युतो मार्जने देवस्त्वनन्तश्चाक्षतोदके ।
रत्नोदके केशवस्स्याल्लोहे नारायणस्म्सृतः

4.8.174

गन्धोदके माधवस्स्याद्गोविन्दस्स्याद्यवोदके ।
पाद्योदके भवेद्विष्णु रर्घ्ये च मधुसूदनः

4.8.175

त्रिविक्र मस्तथा चामे पञ्चगव्येषु वामनः ।
दधिनि श्रीधरो देवो हृषीकेशः पयस्यपि

4.8.176

मधुनः पद्मनाभस्स्याद्दामोदरः कषायके ।
गुळोदके वराहस्स्यात् नृसिंहश्चैक्षवोदके

4.8.177

श्रीधरो नालिकेरस्य हयास्य श्शान्तिवारिणः ।
वासुदेवो मङ्गलस्य कुम्भस्य कमलासन

4.8.178

सर्वैषध्यम्बुकलशे देवस्सङ्कर्षणस्म्सृतः ।
प्रद्युम्न स्सर्व गन्धस्य मालौषध्येऽनिरुद्धकः

4.8.179

मूर्तिरेतेषु कुम्भेषु साङ्गपीठं समर्चयेत् ।
शुद्धोदकेषु सर्वेषु नारायणसमर्चनम्

4.8.180

धान्यानां कलशानां च देवता स्याद्वसुन्धरा ।
कुर्चानां दैवतं चास्त्रं चक्रकाणां सुदर्शनम्

4.8.181

पाससो दैवतं विष्णु स्सर्वेषां वा जनार्दनः ।
इत्येवं स्नपनं प्रोक्तं नवधा तव पद्मज

4.8.182

एषामन्य तमेन स्यात्स्नानं वित्तानुसारतः ।
पञ्चम्यां स्नपनं विष्णो र्यथोक्त फलमश्नुते

4.8.183

त्रिजन्मर्क्षे दशगुणं श्रवणे द्विगुणं भवेत् ।
त्रिगुणं शशिनः पूर्तौ क्षये शतगुणं भवेत्

4.8.184

चतुर्गुणं स्याद्द्वादश्यां त्रिगुणं तारकात्रये ।
सङ्क्रान्त्यां षड्गुणं चैव विषुवे त्रिगुणं भवेत्

4.8.185

अयने दक्षिणे स्नान मेकं शतगुणं भवेत् ।
अयनेऽन्यत्र विहिते सहस्रगुण आप्लवः

4.8.186

विदौ विधुन्तुदग्रस्ते स्नानं त्रिंशद्गुणं हरेः ।
सूर्ये शतसहस्रं तु युगान्ते कोटिसम्मितम्

4.8.187

अनन्तं स्याद्व्यतीपाते कालेष्वेतेषु पूजनम् ।
अनन्तरोक्तफलदं कल्पते चतुरासन

4.8.188

अष्टोत्तरेण कुम्भानां शतेन कमलासन ।
स्नपनं कथ्यते विष्णो र्यथावदवधार्यताम्

4.8.189

ब्राह्मदिव्य मानुषेषु भागेषु त्रिषु भागयोः ।
आद्ययोः स्फालयेत्सूत्राण्येकादश पृथक् क्षितौ

4.8.190

प्रागायतानि तिर्यक्च तत्र मध्ये च दिक्षु च ।
चत्वारि चत्वार्यष्टासु कुम्भस्थानानि वीधिकाः

4.8.191

अन्यानि कुर्यादेवं चषट्त्रिंशत्कोष्ठकं भवेत् ।
तत्र कुम्भां स्तोयपूर्णान् विन्यसेन्मानुषे पदे

4.8.192

भागे नव नवाशासु कुम्भानष्टसु कल्पयेत् ।
अष्टोत्तरशतं कुम्भास्संपद्यनैतथा सति

4.8.193

ब्राह्मे तु मध्यमे स्थाने कलशानां चतुष्टये ।
एकस्मिन् द्रव्यमाघारं शिष्टं शुद्धोदकं त्रिकम्

4.8.194

दिव्ये तु भागे प्राचीने कलशानां चतुष्टये ।
एकस्मिन्नुष्णमु दकं दिश्यग्ने रत्नशम्बरम्

4.8.195

याम्येफलोदकं लौहं नैरृत्यामथ वारुणे ।
मार्जनं वायुभागेतु गन्धतोय मुदग्दिशि

4.8.196

अक्षतोदकमीशाने यवम्भःकथिता नव ।
द्रव्यकुम्भा बहिर्भागे मानुषे पूर्ववत्पदे

4.8.197

पाद्यादि द्रव्यकलशाः पूर्वादिषु यथोदिताः ।
कल्पनीया यथापूर्वमुद्दृत्य स्नावयेत्क्रमात्

4.8.198

कुम्भैरेकोनपञ्चाश त्सङ्ख्क्यैरन्यदुदीर्यते ।
चन्दनार्द्राणि सूत्राणि दश प्रागायतानि च

4.8.199

तथोदगायतानि न्युस्थ्साप्यानि कमलासन ।
मध्ये नवसु कोष्ठेषु विन्यसेत्कलशान्नव

4.8.200

दिक्षु प्रतिदिशं कुम्भान् षट्सु कोष्ठेषु तावतः ।
विन्यसेच्च तुरः कुम्भान् विदिक्ष्वपि पृथक्पृथक्

4.8.201

वीधयोऽन्यानि कोष्ठानि द्रव्याणि च यथापुरम् ।
कुम्भानां पञ्चविंशत्या स्नानमन्यदुदीर्यते

4.8.202

पूर्ववद्दश सूत्राणि स्फालयित्वा भुवस्थ्सले ।
मध्ये नवसु कोष्ठेषु नवकुम्भान् प्रकल्पयेत्

4.8.203

प्रागादिदिक्षु प्रत्येकं कलशां स्त्रीन्प्र कल्पयेत् ।
आग्नेयादिषु कुम्भानां कोणेष्वेकैकल्पनम्

4.8.204

द्वौ द्वौ पुर्वादिषु घटौ पार्श्वतः केवलोदकौ ।
अष्टा तान्वर्जयित्वान्ये द्रव्यकुम्भा यथोदिताः

4.8.205

मध्यमे कुम्भनवके यथोक्त द्रव्यपूरणं ।
गन्धद्रव्यैः पूरयेद्वाकलशान्वञ्चविंशतिम्

4.8.206

चन्दनागुरु काश्मीर कुष्ठ तगर वीरणैः ।
असितागुरुणा चापि हरिचन्दनवारिणा

4.8.207

ह्रीभेरकर्दमेनापि नवमेन घटान्नव ।
मध्यादीशानपर्यन्तं पूरयेत्कमलासन

4.8.208

तमालसितकुष्ठाभ्यां सुरपर्णीरजः कणैः ।
कर्पूरनागसुमनोमुस्ताचम्पककुट्मलैः

4.8.209

प्रिङ्गुपुष्पकालेयग्रन्धिवल्लवभीजकैः ।
मांसीखर्जूरशैलेय ह्रीबेरैश्च सुरद्रुमैः

4.8.210

मुरेण तैर्यथा योगं बहिष्ठानपि षोडश ।
हित्वा बहिर्वि दिक्कुम्भान् यद्वान्यैस्स्नापयेद्धरिम्

4.8.211

स्फालयेन्नव सूत्राणि यथा पूर्वं भुवस्थ्सले ।
ब्राह्मस्थाने चतुष्कोष्ठे विन्यसेच्चतुरो घर्टा

4.8.212

द्वौ द्वौ स्यातां च पूर्वादि दिक्ष्वौकैकं विदिक्षु च ।
रत्नं लोहं तथा गन्धमाघारं च यथा क्रमम्

4.8.213

द्रव्याणि कुम्भेष्वाग्नेय कोणादि स्थेष्वनु क्रमात् ।
बहिरैन्द्र पदे कोष्ठे द्वयोःकलशयोर्यथा

4.8.214

पाद्यमर्घ्यं तथाग्नेय कोणे दधिघटो भवेत् ।
याम्ये चाचमनीयं प्राक्सञ्चगव्यं च पश्चिमे

4.8.215

कोणे तु नैरृते क्षीरं पश्चिमे तु घटद्वये ।
दक्षिणेऽक्षतमन्यत्र मार्जनाम्भस्तथानिले

4.8.216

कोणे मधु तथा सौम्ये कषायां च कुशोदकम् ।
यपोदकं शार्वकोणे द्रव्यैः पद्यादिभिः क्रमात्

4.8.217

युग्भिष्टोडशभिस्सूक्तैः पौरुषै स्स्नापयेद्धरिम् ।
कुम्भैर्द्वादशभिर्वापि चतुर्भिर्मध्यमस्थितैः

4.8.218

कत्नेन लोहेन तथा सर्वगस्थेन सर्पिषा ।
पूर्तैर्बहिरिन्द्रादि कोष्ठस्थैरष्टभिर्घटैः

4.8.219

प्राचीमारभ्य पाद्येन दध्यर्घ्यक्षीरपूरितैः ।
तथैपाचमनीयेन मधुना पञ्चगव्यकैः

4.8.220

फलोदकेन यद्वान्यैर्द्रव्यैर्द्वादशसम्मितैः ।
मध्येऽग्नि कोणे कोष्ठेन नैरुतेऽगुरुणाऽनिले

4.8.221

ग्रन्धिपल्लवभीजेन शार्वे मलयजाम्भसा ।
बहिःक्रमेण पूर्वादि दिक्ष्वाष्टासु चतुर्मुख

4.8.222

काश्मीरजेन मांस्या च तमालेन मुरेण च ।
मूलेन पर्वतोत्थेन सुरवर्णीरजःकणैः

4.8.223

चम्पकप्रसनक्षोदैः शर्जूरेण प्रपूरितैः ।
कलशैस्स्नापयेद्देवं नवभिर्वा विधेःपदे

4.8.224

प्रागादिदिक्षु चाष्टानु क्रमेणाज्येन वस्तुना ।
पाद्येन दध्ना चार्घ्येण क्षीरेणाचमनाम्बुना

4.8.225

मधुना पञ्चगव्येन फलेनापि च पूरितैः ।
रत्नैर्वा नवभिपूर्णैः कुम्भैर्नवभिर्लावः

4.8.226

पञ्चभिर्वा घटैर्मध्ये दिक्षु प्रागादिषु स्थितैः ।
मणिभिश्च प्रवालैश्च मुक्ताभिःपूरितैःक्रमात्

4.8.227

वज्रवैडूर्य शकलैर्लोहैर्वा पञ्चभिश्शुभैः ।
पञ्चामृतैर्वा मधुना गुळेनाज्येन पूरयेत्

4.8.228

दध्ना च पयसा यद्वा पञ्चगव्यैःक्रमाद्भवेत् ।
एकेन वाहरेस्स्नानं द्रव्यैः पूर्वोदितैर्भवेत्

4.8.229

व्यस्तैस्समस्तैर्वा वित्तं देशकालानुसारतः ।
देया च दक्षिणा स्वर्णनिष्काःकलशम्मिताः

4.8.230

अर्धं पादं तदर्धं वा यथावित्तानुसारतः ।
स्नपनं दक्षिणाहीनं निष्फलं फलकामिनः

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc