भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.7

4.7.1

भगवन् कथ्यतां कीदृक् चक्राब्जं नाम मण्डलम् ।
यदाराध्यं समाराध्य तरन्ति भववारिधिम्

4.7.2

चतुर्भिर्याज्ञिकैः काष्ठैष्षडङ्गुल घनैश्शुभैः ।
द्वादशाङ्गुल विस्तारै राकारं चतुरश्रकम्

4.7.3

मण्डलानुगुणायामविस्तारं परिकल्पयेत् ।
अष्टतालायतान् स्तम्भान् सुवृत्तां श्चतुरस्तथा

4.7.4

सन्निकृष्टस्य कोणेषु चतुर्ष्वेतस्य मङ्गलान् ।
स्थापयेदुपरिष्टाच्च स्तम्भानां सन्नि वेशयेत्

4.7.5

चत्वारि चैव दारूणि यथापूर्वेक्त लक्षणम् ।
तच्चतुष्कं च दारूणां वितानध्वजमालया

4.7.6

भूषये त्परितो मुक्तादामानि च विलम्बयेत् ।
शुद्धया च मृदाधस्ताच्चतुष्कोष्ठस्य चान्तरम्

4.7.7

पूरये दन्तरं तस्य गोमयेनोपलेपयेत् ।
चक्राब्जादीनि बिम्बानि कुर्यात्तत्र महीतले

4.7.8

तेषामा यामविस्तारा विष्येते हस्तसम्मितौ ।
द्विगुणौ त्रिगुणौ वापि स्याता मथ चतुर्गुणौ

4.7.9

यद्वापञ्छ गुणौ ब्रह्मन्नवकाशानु सारतः ।
चन्दनार्द्राणि सूत्राणि प्रञ्चि सप्तदशक्षितौ

4.7.10

निपात येत्तधोदञ्चितावन्ति कमलासन ।
षट्पञ्चाशत्समधिके सन्त्येव द्वेशते पुनः

4.7.11

कोष्ठानि सन्ति तत्रान्तष्षट्त्रिंशत्कोष्ठ मध्यतः ।
स्थापयित्वाततश्शङ्कुं भ्रामये त्सूत्रवर्त्मना

4.7.12

पञ्चवृत्तानि बिम्बानि समान्येकं तु मध्यमम् ।
कर्णिकाक्षेत्रमेतस्माद्बहिर्बिम्बं त्रिधा पुनः

4.7.13

विभज्य सूत्रमार्गेण प्रथमा केसरावनिः ।
दलभूमिर्द्वितीया तु तृतीया नाभिमण्डलम्

4.7.14

तदेकं द्विविधं वापि त्रिविधं सूत्रवर्त्मना ।
विभजेन्नाभि भूभागाद्बहिर्द्वे मण्डले भत्

4.7.15

अरक्षेत्रं बहिर्नेमिभूरेकं मण्डलं भवेत् ।
कोष्ठैरथाष्टविंशत्यापरितो बहिरासनम्

4.7.16

चतुरश्रं भवेत्कोष्ठैरशीत्यावीधिका बहिः ।
पङ्त्किद्वयेन विश्वात्मन् चतुरश्राद्बहिःपुनः

4.7.17

कोष्ठानि द्वादशाधिक्यं शतं पङ्क्तिद्वये भवेत् ।
प्रत्याशं तेषु कोष्ठेषु चतुर्द्वारं प्रकल्पयेत्

4.7.18

कोष्ठेश्चतुर्भिःप्रत्येकं द्वयोः पङ्त्क्योश्चतुर्मुख ।
चतुर्षु कोणेषु तथा प्रत्येकं शङ्खसिद्धये

4.7.19

कोष्ठध्वयं तु सम्मार्ज्यं द्वयोःपङ्त्क्योश्चतुर्मुख ।
प्रतिद्वारं तदभ्यर्णे पार्श्वयो रुभयोरपि

4.7.20

अर्थ शोभा प्रसिद्यर्थं बाह्यानन्तर रथ्ययोः ।
द्वे द्वे कोष्ठे बहिःपङ्त्क्या मैकैकं तदनन्तरम्

4.7.21

सम्मार्ज्य मेवं शोभार्थमेकैकं बहिरन्यतः ।
त्रीणि त्रीणि च कोष्ठानि मार्जनीयानि पद्मज

4.7.22

उपशोभार्थमप्येवं व्यत्यासेन चतुष्टयम् ।
सम्मार्जनीयं कोष्ठानां विनियोगः प्रदर्शितः

4.7.23

यद्वापीठादिनिर्माणं विना कोष्ठानि विंशतिः ।
शतद्वयं च परितः परिमृज्य चतुर्मुख

4.7.24

आदिपद्म प्रमाणेन कुर्यादावरणत्रयम् ।
चतुर्दिशं चतुर्द्वार कल्पनं पद्ममानतः

4.7.25

यद्वैक वलजं कुर्यादभीष्टदशि पद्मज ।
द्वादशाब्जानि कल्प्यानि प्रत्यावरणकल्पनम्

4.7.26

चतुर्षु कोणेष्वेकैकं द्वे द्वे वलज पार्श्वयोः ।
दलैर्द्वादशभिर्युक्तं कर्णिकाके सरान्वितम्

4.7.27

आदिपद्मार्धमानेन पद्मजातं प्रकल्पयेत् ।
मध्यमे पङ्कजे बिन्दून् कर्णिकायां प्रकल्पयेत्

4.7.28

द्वादशा ब्बजरेखाश्च शतं च नवतिं तथा ।
केसरोर्व्यां पिधायान्वग्दलक्षेत्रे प्रकल्पयेत्

4.7.29

विदिक्षु दिक्षु च तथा चतस्रो विंशतिं तथा ।
रेखे द्वे द्वे दलानि स्युस्सूच्य ग्रवदनन्तरे

4.7.30

प्रदर्शयेदुपदलान्न्यरक्षेत्रे दिशःप्रति ।
अरे द्वे द्वे विहिक्षु स्यादेकैकं द्वाशशारता

4.7.31

अराणिन्दीवरदलैस्तुल्यान्यब्जपलाशवत् ।
यद्वा यपोदराभानि मातुलुङ्ग समानि च

4.7.32

पिपीलिकोदराभानि परस्परमानि च ।
अन्तरालानि चै तेषां तुल्यमानानि पद्मज

4.7.33

ईदृशं मण्डलं शस्तं पासुदेव समर्चने ।
नारायणे तु यष्टव्ये बिन्द्वाद्याः पूर्वमीरिताः

4.7.34

अष्टावष्टौ विधातव्याः केसरा नवतिस्सषट् ।
पूर्वेरितानि कोष्ठानि मार्जयित्वाषडुत्तरम्

4.7.35

त्रिंशश्च तत्र नाभ्यादि विनापद्मं प्रकल्पयेत् ।
शङ्कुमाहृत्य सूत्रेण तत्समं विभजेद्द्विधा

4.7.36

प्रथमं कर्णिकाक्षेत्रं द्वितीयं विभजेत्त्रिधा ।
त्रिष्वाद्यं केसरक्षेत्रं दलक्षेत्र मनन्तरम्

4.7.37

तृतीयमन्तरालं स्या द्दलपीठिकयोर्द्वयोः ।
अष्टौ द्वादश वा कुर्या द्बिन्द्वादीन् कमलासन

4.7.38

मण्डलं भद्रकं नाम तदिदं सर्वकामदम् ।
चिकीषन् स्वस्तिकं बिम्बं क्षेत्रं षट्त्रिंशतायुम्

4.7.39

संमृज्य तत्र कोष्ठानि एकं दश च पातयेत् ।
प्रागायतानि सूत्राणि उदिचीनायतानिच

4.7.40

संमृज्य मध्यतो द्वे द्वे वीधीं प्रागायतामपि ।
तथोदगायतामेकां कुर्यान्निर्ग मनं पुनः

4.7.41

प्रागायताभ्यां कोष्ठाभ्यां बहिःपङ्त्का उदङ्मुखम् ।
प्राचीनं पश्चिमं चापि दक्षिणामुख मिष्यते

4.7.42

तथोदगा यताभ्यां स्या दुदक्प्रत्यङ्मुखं शुभम् ।
दक्षिणाग्रं भवेत्प्राच्या मितिस्वस्तिक मीरितम्

4.7.43

द्विधा विभज्य पूर्वोक्तं षट्त्रिंशत्कोष्ठमण्डलम् ।
मध्यतः पद्मकरण मवशिष्टे त्रिधाकृते

4.7.44

द्वाभ्यां सुवृत्तं भागभ्यां भ्रान्तं वृत्त्यस्य मण्डलम् ।
अवशिष्टेन भागेन त्वन्तरालं भवेद्बहिः

4.7.45

सौरमण्डल मेतत्स्यादे तदेवेन्दु मण्डलम् ।
सर्वेषामेव बिम्बानां पीठाद्बाह्यं यथापुरम्

4.7.46

विना विदध्यात्पीठादीन् केवलं चक्रपङ्कजम् ।
चक्रं विना वा पद्मं स्या त्कर्तुश्शक्ति समीक्षया

4.7.47

मण्डलं शोभयेद्रत्नैः पञ्चवर्णैस्सितादिभिः ।
तच्चूर्णै रथवा चूर्णै र्लोहजै र्वाथ धातुजैः

4.7.48

चन्दनागुरुकुष्ठादि गन्धचूर्णै रथापि वा ।
शाल्यादि तण्डुलैः पिष्टैस्सित्रेर्व्रीहि भिरप्युत

4.7.49

पुटदग्धै रवक्षुण्णै रसितै र्याज्ञिकैश्छदैः ।
श्यामै श्शुक्लैरवक्षुण्णौः कौसुम्भै रपि पाटलैः

4.7.50

निशा चूर्णैः प्रसूनैर्वापङ्चवर्णैश्च कालजैः ।
शोभयेत्कर्णिकादीनि यद्वर्णानि चतुर्मुख

4.7.51

तद्वर्णैरेव रत्नादि द्रव्यैराकारशोभनम् ।
अन्तरालानि सर्वत्र कृष्णैश्श्यामैरथापि वा

4.7.52

शोभ येत्कर्णि कां पीतै श्शुक्लैर्बिन्दून्वि शोभयेत् ।
पाटलैः कर्णिकारेखां कृष्णैर्वा केसरावनिम्

4.7.53

द्विधा कृत्वा पूर्वभागं श्वैतैर्भाग मथोत्तरम् ।
पीतैरक्तैर्विरामेषु प्रतिकेसरमर्जुनैः

4.7.54

बिन्दून्विदध्याद्रद्नैस्तु दलकोटिषु रेखयेत् ।
आद्यन्तानि च बर्हाणां सितर क्तैर्विशोभयेत्

4.7.55

बर्हान्त वलयं रक्तैस्सितैर्वा र्भूषये त्पृथक् ।
श्यामैः पीतैश्च रक्तैश्च नाभिरेखात्रयं क्रमात्

4.7.56

द्विनाभित्वे श्यामपीतै श्श्यामैरेवैकनाभिके ।
रेखयेदसितै रेव त्वरकोटी रराणि तु

4.7.57

रक्तैररान्तवलयं कृष्णैर्नेम्यन्तमेदिनीम् ।
सितैर्नेमि महीभागं द्विधा कृत्वैक मादितः

4.7.58

भागं कृष्णैस्सितैरन्यन्नेमिभागं विशेषयेत् ।
पीठं पीतैः पाटलैर्वा सितैर्वा वीधिकां पुनः

4.7.59

लतावितान पत्रादियुक्तां चूर्णैश्च चित्रयेत् ।
रक्तैश्शोभां तथा पीतै रूपशोभां च शोभयेत्

4.7.60

द्वारं शुक्लैश्च रक्तैश्च पीतैः कृष्णै र्यथाक्रमम् ।
शोभये दुत्तरादींश्च कोणान् कृष्णैरथार्जुनैः

4.7.61

शङ्खं च कुर्यात्तैरेव स्वस्तिकं पाटलप्रभम् ।
यद्वा पीतनिभं सौरं मण्डलं पाटलप्रभम्

4.7.62

मण्डलं चैन्दवं शुक्लमन्तरालं तु सर्वशः ।
यथेष्टवर्ण सुभगं मण्डले हस्तसम्मिते

4.7.63

रेखानु चूर्णैरुत्सेधः कनिष्ठाङ्गुलि सम्मितः ।
द्विहस्तेऽनामि का मानस्त्रिहस्ते मध्यमासमः

4.7.64

चतुर्हस्ते मण्डले तु तर्जन्य ङ्गुलिसम्मितः ।
पञ्छहस्ते समोऽङ्गुष्ठेनेत्युत्सेधः प्रदर्शितः

4.7.65

मण्डलं चित्रयित्वैव मारभेत समर्चनम् ।
आराध येत्कर्णिकायां मन्त्राध्वानमनन्तरम्

4.7.66

तत्वाध्वानं केसरेषु वर्णाध्वानं दलेषु च ।
पदाध्यानं नाभिभागि कलाध्वान मरेषु च

4.7.67

षष्ठं तु भुवनाध्वानं नेमिभागे चतुर्मुख ।
कर्णिकायां द्वादशसु बिन्दुषु द्वादशार्चयेत्

4.7.68

अक्षराणि समावाह्य कर्णिकायां समाहितः ।
यजेत परमात्मानं सकलीकृत्य तत्ववित्

4.7.69

केसरेषु श्रियादींश्च यजेत दलभूमिषु ।
शक्तीस्तदीया दश च द्वे च पूज्या यथाविधि

4.7.70

श्रीवत्सा द्याश्शक्तयश्च व्याप्त्याद्याः परितस्थ्सिताः ।
दला न्तवलये पूज्यो विष्णुः प्रथमनाभिगः

4.7.71

ब्रह्मा द्वितीयनाभिस्थस्तृणेत्रस्तु तृतीयगः ।
द्वादशारेषु विष्ण्वाद्वाः पूज्या द्वादशमूर्तयः

4.7.72

अरान्तवलये पूज्या मीनाद्या दश मूर्तयः ।
प्रथमे नेमिवलये शङ्ख्याद्यायुध पूजनम्

4.7.73

पीठकोण चतुष्केषु वराहो नरकेसरी ।
अनन्तश्च हयग्रीवस्तदाग्नेयादिषु क्रमात्

4.7.74

वीधिकायां लोकपालाः पुरुहूता दयः क्रमात् ।
पूज्या द्वारेषु चण्डाद्या द्वौ द्वौ प्रति चतुर्ष्वपि

4.7.75

ईशान कोणे रथ्यायां विष्वक्सेनं समर्चयेत् ।
गरुडोऽभि मुखस्तिष्ठन् पूर्वद्वारा द्बहिः क्षितौ

4.7.76

चक्रं च दक्षिणद्वारि गदां च द्वारि पश्चिमे ।
वलजे चोत्तरे शङ्खं प्रथमा वरणे ततः

4.7.77

विष्ण्वादि मूर्तयः पूज्या द्वादशा ब्जेषु पद्मज ।
अनन्तरे चावरणे पद्मेषु द्वादशस्वपि

4.7.78

पासुदेवादि कृष्णान्ता मूर्तयो द्वादशैव ते ।
पद्मेष्वावरणे चान्ते द्वादशा दित्य पूजनम्

4.7.79

एतस्मिन् मण्डले देवं पासुदेवं समर्चयेत् ।
बिम्बे नारायणाख्ये तु बिन्दुष्वष्टसु तावताम्

4.7.80

अष्टाक्षराणां न्यसनम्
व्याप्त्याद्याश्शक्तयोऽष्ट च ।
केसरेषु समाराध्या
दलेष्वष्टौ श्रियादयः

4.7.81

अरेष्वष्टनु शङ्खादीन्यायुधान्यष्ट पूजयेत् ।
चतुर्विंशतिपद्मेषु चतुर्विं शतिमूर्तयः

4.7.82

त्रिषु चावरणेष्वेषु पूज्याः
तन्मण्डले हरिम् ।
नारायणं समावाह्य यजेत परमेश्वरम्

4.7.83

दर्शेच पौर्णमास्यां च सङ्क्रान्तौ श्रावणेषु च ।
द्वादश्यां विषुवे चैव ग्रहणेष्व यनेषु च

4.7.84

जन्मऋक्षे विशेषेण मण्डले हरिमर्चयेत् ।
मण्डलाराधनमिदं धर्मका मार्थमोक्षदम्

4.7.85

चक्राब्जमण्डले शस्ता दीक्षा तस्याश्च मण्डलम् ।
एकद्वारं भवेत्तच्च सौम्यं स्यादग्रजन्मनाम्

4.7.86

चित्रितं श्वेतवर्णेन प्राग्द्वारं पृथिवी भुजाम् ।
रक्तेन चित्रितं द्वारं पाश्चात्यं पीतवर्णकम्

4.7.87

विशां भवेद्दाक्षिणात्य मसितं पादजन्मनाम् ।
द्वाराणि चानुलोमाना मुत्पादकवदिष्यते

4.7.88

सूतस्य वलजं प्राच्यां
शूद्राणामिव योषिताम् ।
शिष्यं सुतं वा सर्वज्ञ मनसूयं जितेन्द्रियम्

4.7.89

आचार्यवंशजन्मानं निग्रहानु ग्रहे क्षमम् ।
शान्तिके पौष्टिके चैव कर्मणि क्षममर्थिनाम्

4.7.90

वेद वेदान्त तत्वज्ञ माचार्य पदकाङ्क्षिणम् ।
देशिकेन्द्रो विधानेन वक्ष्यमाणेन तत्ववित्

4.7.91

कर्षणादिषु सर्वेषु विधानेष्वधिकारिणम् ।
कुर्यान्मण्डल पूजादि कुम्भयागावसानिकम्

4.7.92

दीक्षायामिव तत्सर्वं कृत्वा शिष्यस्य सन्निदौ ।
आज्येन चरुणा चैव समिद्भः कुसुमै स्तिलैः

4.7.93

जुहुयान्मूलमन्त्राभ्या मष्टोत्तरसहस्रकम् ।
शिष्यस्य दक्षिणे हस्ते बध्वाप्रति सरं गुरुः

4.7.94

नृत्तैर्गेयैस्तथा पाद्यै र्वेदघोषैर्नयेन्नि शाम् ।
ततःप्रभाते शिष्यं तं स्नातं नूतन वासनम्

4.7.95

समाहोया समाराध्य मण्डलं कुम्भमेव च ।
चतुर्विधं निवेद्यान्नं होमं कुर्याद्यथा निशि

4.7.96

कलशां श्चतुरो द्रोण पूर्णान् होमादि निर्मितान् ।
मृण्मयान्वा यथावित्तं सूत्र वस्त्रादिवेष्टितान्

4.7.97

संस्थाप्य धान्यराशौ तु रत्नादीनि विनिक्षिपेत् ।
अग्नेयकुम्भे रत्नानि सर्वाणि विनिवेशयेत्

4.7.98

नैरृते सर्वलोहानि गन्धद्रव्याणि मारुते ।
ऐशाने तीर्थवारीणि ततो देवं समर्चयेत्

4.7.99

अग्निकोणे वासुदेवं सङ्गर्षण मनन्तरे ।
प्रद्युम्नं वायुकोणे तु कोणे रौद्रेऽनिरुद्धकम्

4.7.100

ततोऽनु शिष्यं संस्थाप्य पीठे भद्रादिविद्यया ।
शिष्यं प्राङ्मुखमासीनं षडङ्ग न्यासपूर्वकम्

4.7.101

अर्चयित्वाघृतारोप माचरे दविलम्बयन् ।
तूर्य घोषेण गेयेन ब्रह्मघोषेण घोषयेत्

4.7.102

चतुर्दिक्षु ततोगन्धैः पुष्पैस्ताम्बालविटिभिः ।
धनैर्बहु विधैरिष्टैस्सदस्यान् तोषयेद्द्विजान्

4.7.103

तोषयेच्च विशेषण भगवद्भक्तिमा श्रितान् ।
मुहोर्ते शोभने प्राप्ते ब्राह्मणानामनुज्ञया

4.7.104

ऋग्वेद मन्त्रितं कुम्भ माग्नेयदिशि निष्ठितम् ।
तमुपादाय पाणिभ्यां सूक्तेन पुरुषात्मना

4.7.105

द्वादशाक्ष रमन्त्रेण सम्पुटीकृतमूर्तिना ।
अभिषिञ्चेद्गुरुश्शिष्यं कुम्भेव तदनन्तरम्

4.7.106

नैरृतस्थेन यजुषा मन्त्रितेन समाहितः ।
वैष्णवेन च सू क्तेन ब्रह्मन्नाद्यवसानयोः

4.7.107

सङ्कर्षणाख्य मन्त्रेण सम्मुटीकृतमूर्तिना ।
कुम्भेन मारुतस्थेन सामाघोषितवारिणा

4.7.108

प्रद्युम्नसम्पुटेनाथ ब्रह्मन् वारुणसामभिः ।
कुम्भेनाथर्ववेदेन पवित्री कृतवारिणा

4.7.109

ईशान कोणसंस्थेन सम्पुटीकृतमूर्तिना ।
अनिरुद्धाख्य मन्त्रेण नारायण समाह्वाया

4.7.110

विद्यया कलशैस्सर्वै रभिषिञ्चेद्यथोदितम् ।
अभिषिक्तस्ततश्शिष्यो नवाम्बरथंश्शुचिः

4.7.111

आचान्तश्चन्दनक्षोदै र्लिप्तमाति रलङ्कृतः ।
स्रग्वी पासोभि रुष्णीषं बद्ध्वा मुकुट सन्निभम्

4.7.112

उत्तरीयं च बिभ्राणो बिभ्राणो योगपट्टिकाम् ।
अञ्जनाक्तेक्षणद्वन्द्वो बाहुमाला परिष्कृतः

4.7.113

निरीक्षितादर्शतलो ब्राह्मणैस्स्वस्ति पाचकैः ।
दत्तप्रसव वृष्टिश्च श्वेतव्यजनवीजितः

4.7.114

दत्तोपानट् सितच्छत्रो दत्ताश्व गजवाहनः ।
नीराजितश्च कल्याणो जायते गुर्वनुग्रहात्

4.7.115

अनेनैवाभिषेकेण लब्ध्वाचार्य पदं स्वयम् ।
आचार्य कृत्यमखिलं कर्तुमिच्छे च्चतुर्मुख

4.7.116

गुरुवे दक्षिणां दद्वा द्गोभूहेमादिकं तथा ।
यथाविभवविस्तारं ततो हस्त्यादि वाहनम्

4.7.117

आरुह्य धवलच्छत्र श्वेत चामर वीजितः ।
आचार्यचिह्नैरखिलै र्लक्षितो ब्राह्मणै स्सह

4.7.118

रथयानेनाग्रहारं प्रादक्षिण्येन रथ्यया ।
गत्वा देवस्य सदनं प्रविशेत्स्वस्य धाम वा

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc